________________
१२०
वादार्थसग्रहः
[४ भागः घवसंभवादित्यर्थः । अनन्यलभ्यइति । एतेन अनन्यलभ्यो हि शब्दार्थ इति नियमस्यापि न भङ्ग इति सूचितम् । व्यापारविशेषमात्रेति । गमनत्वादिविशिष्टमात्रेत्यर्थः । मात्रपदेन फलव्यवच्छेदः । इति स्थिताविति । व्यवस्थितावित्यर्थः । ननु व्यापारमात्रस्य धात्वर्थत्वे ग्रामं गच्छतीत्यादौ फललक्षणकर्मत्वस्य कुतो लाभ इत्यत आह-ग्रामं गच्छतीत्यादि । आख्यातकृनेदेनोदाहरणद्वयम् । द्वितीयादेरिति । अत्रादिना ग्रामस्य गन्तेत्यादौ षष्ठयाः परिग्रहः । फलजनकत्वलक्षणमिति । फलत्वमत्र जन्यत्वं द्रष्टव्यम् । फलत्वविशिष्टजनकत्वस्य द्वितीयाद्यर्थत्वे ग्रामं गच्छतीत्यादौ परसमवेतधात्वर्थजन्यफलशालित्वलक्षणकर्मत्वस्य बोधप्रकारमाह-फले चेत्यादि । चैत्रस्य नतेत्यादाविव एकदेशान्वयस्वीकारेण तथान्वयबोधस्वीकारे तुल्यवित्तिवेद्यतया उपदर्शितकर्मत्वस्यापि बोध इति भावः । फलजनकत्वे द्वितीयादेः शक्तिकल्पने गौरवात्तदपहाय फले शक्तिः जनकत्वं तु संसर्गमर्यादया। भासत इत्यस्यैव सम्यतवात्तथैवाह-फलमात्रं वेति । जन्यत्वविशिष्टं वेत्यर्थः । फलसामान्यलाभेमीति जन्यत्वविशिष्टस्य लाभेऽपीत्यर्थः । नियतेति । लक्षणोपस्थितिशक्तिभ्रमाकालीनेत्यर्थः । संयोगविभागाद्यलाभादिति । संयोगत्वविभागत्वादिना संयोगविभागरूपफलस्यालाभादित्यर्थः । तस्मादिति । पूर्वमते उपदर्शितदोषसंभवादित्यर्थः । फलविशेषावच्छिन्नेति संयोगत्वादिविशिष्टजनकेत्यर्थः । ननु लक्षणोपस्थित्याद्यभावकाले तथाविधबोधाभावे क्षतिविरह इत्यतो दूषणान्तरमाह-अन्यत्रेति । व्यापारमात्रस्य धात्वर्थत्वे इत्यर्थः । पर्यायत्वापत्तेरिति। एकशक्यतावच्छेदकावच्छिन्नशक्तनानापदत्वस्यैय पर्यायपदार्थत्वादिति भावः ।
शङ्कते-तवापीत्यादि । संयोगत्वादिविशिष्टावच्छिन्नव्यापारस्य धातुशक्यत्ववादिनोऽपीत्यर्थः । संयोगशालित्वमित्यादि । जन्यत्वावच्छिन्नरूपफलशालिन्वावच्छिन्नस्यैव कर्माख्यातादिवाच्यत्वेन फलान्तरस्यापि बोधसंभवादिति भावः। तदवच्छिन्नेति । संयोगत्वादिविशिष्टावच्छिन्नेत्यर्थः । तथा च तादृशसमभिव्याहारैविशिष्टस्यैव तथा कार्यतावच्छेदकत्वादिति भावः । समभिव्याहारविशेषात् सामान्यधर्मावच्छिन्नबोधकपदस्य विशेषबोधकत्वे दृष्टान्तमाह-यथेत्यादि । अन्यदेतदिति । तथा च तत्र यदीष्टत्वेन रूपेण स्वर्गादिबोधकत्वं तदा ममापि प्रकृते सामान्यधर्मावच्छिन्नत्वरूपेण संयोगादिबोधकत्वं यदि तत्रे.
१ वाच्यत्वे इति पाठः । २ बोधकेति पाठः। ३ विशेषस्यैव विधवोषजनकत्वादिति पाठः । ४ फलस्वरूपेणेति पाठः ।