________________
११९
१३ प्रन्थः] आख्यातशक्तिवादः। संयोगादिफलशालित्वं चैत्रवृत्तिगमनादिजन्यसंयोगादिफलशालित्वं, कुत इति, ग्रामोगम्यत इत्यादौ विभागशालित्वस्य तरुस्त्यज्यते इत्यादौ च संयोग शालित्वस्य काभप्रसङ्गेन वैपरीत्यापत्तिः तदवस्थैवेति भावः । तदवच्छिन्नति संयोगावच्छिन्नव्यापारवाचिगमिसमभिव्याहृतात्मनेपदस्य संयोगात्मकफलबोधकत्वं, विभागावच्छिन्नव्यापारवाचित्यजिसमभिव्याहृतात्मनेपदस्य विभागात्मकफलबोधकत्वमित्यादिव्युत्पत्तिकल्पनेनोक्तदोषो वारणीय इत्यर्थः । यद्यपि केवल व्यापारे धातुशक्तिवादिनाप्येवं वक्तुं शक्यते, तथापि तन्मते त्यजि-गम्योः पर्यायतापत्तिरेव दोष इति ध्येयम् । ननु सामान्यबोधकशब्दस्य समभिव्याहारविशेषचलेन विशेषबोधकत्वं कुत्र दृष्टमित्याकाङ्क्षायामाह-यथेति । स्वर्गकामो यजेतेत्यादौ इष्टसाधनत्वमात्रस्य विध्यर्थत्वेऽपि स्वर्गकामपदसमभिव्याहारवलेन विशेषबोधकतापर्यवसानं फलं दृष्टम् । नन्वेवं स्वर्गकामोयजेतेत्यादौ यथा स्वर्गसाधनत्वत्वरूपेण विधिप्रत्ययस्येष्टसाधनत्वबोधकता तथा संयोगत्वादिना फलबोधकता स्यादित्यत भाह-प्रतीतिस्त्विति । तथाच यदि स्वर्गवादिना तवेष्टबोधस्तदा अत्रापि संयोगत्वादिना आत्मनेपदात् फलप्रतीतिर्वाच्या । यदि च इष्टत्वरूपेस्वर्गरूपेष्टबोधकता तदा अत्रापि फलत्वरूपेणात्मनेपदस्य संयोगदिबोधकत वाच्येति भावः।
नन्वेवं यदि संयोगत्वादिरूपेणात्मनेपदस्य शक्तिग्रहस्तदा तेन रूपेणातुपस्थितिकाले गृहीतात्मनेपदफलशक्तिकस्य कालान्तरे संयोगत्वादिकं धम्मितावच्छेदकीकृत्य फलत्वज्ञानसत्वेऽपि संयोगत्वादिना प्रकारेणात्मनेपदार फललाभो न स्यादित्यत आह-अस्तु वेति । तथाच तत्पदं बुद्धिप्रकारवति शतमिति शक्तिज्ञानस्य घटोऽस्य बुद्धिप्रकारवान् इतिज्ञानसहकारेण यथा घटत्वपटत्वादिरूपविशेषधर्मप्रकारेण बोधकत्वं, तथा आत्मनेपदं फलतावच्छेदकविशिष्टे शक्तमिति शक्तिज्ञानस्य स्वप्रकृत्यर्थतावच्छेदकतावच्छेदकफलमिति शानसहकारेण संयोगत्वादिना फलबोधकता, एवं कर्मकृत्फलविशिष्टे शक्तमिति शांतिज्ञानस्य स्वप्रकृत्यर्थतावच्छेदकफलमिति ज्ञानसहकारेण संयोगविशिष्टयोधकता स्यादित्यर्थः । एवं विभागादिकमादाय बोध्यम् । आख्यात-कृतोरपीस्यपिकारेण गम्यादिधातोः संयोगावच्छिनव्यापारवरूपेण बोधकत्वसमुच्चयः । तत्र च शक्तिग्रहो गमधातुः संयोगावच्छिन्नस्पन्दशक्त इत्यादिरूप एवेति शेष इत्यर्थः ॥ ११ ॥
(रघु०) कस्यचिन्मतं दूषयितुं तदर्शयति-एवमित्यारभ्य केचिदित्यन्तेन । एवं कर्मविहितकृत्कर्मविहिताख्यातयोः फलबोधकत्वव्यवस्थापने चेत्यर्थः । लाघवादिति । फलानुकूलत्वविशिष्टे शक्तिकल्पनापेक्षया शरीरला