________________
११८
वादार्थसंग्रहः
[४ भागः
त्वलक्षणकर्मत्वे शक्तिकल्पनेनेत्यत आह-गतो ग्रामो गम्यत इत्यादि । चैत्रेण ग्रामो गत इत्यत्र फलविशिष्टवाचिकृत्प्रत्ययात् पदार्थतावच्छेदकतया फलस्य लाभः, चैत्रेण ग्रामो गम्यत इत्यत्र चात्मनेपदात् फलविशेष्यकशक्त्या फललाभ इत्यर्थः । तथाचान्यलभ्यत्वरूपवाधकेन धातोः फले न शक्तिरिति भावः । लाघवादिति । फलावच्छिन्नव्यापारविशेषत्वापेक्षया व्यापारविशेषत्वस्य शरीरलाघवादित्यर्थः । व्यापारविशेषेति । पचधातोर्वन्हिस्थालीसंयोगादिरूप व्यापारः, गम्यादिधातोः स्पन्दरूपो व्यापारः, त्यजधातोरपि स एवेत्यादिरर्थः । मात्रपदेन पदार्थतावच्छेदकतया फलवाचकत्वस्य व्यवच्छेदः । ग्राममित्यादि । तथाचानन्यलभ्यत्वात् फलस्य द्वितीयादेः फलजनकत्वलक्षणकर्मत्वे शक्तिरनायत्या कल्प्यत इत्यर्थः । द्वितीयादेरित्यादिपदेन ग्रामस्य गन्तेत्यादौ षष्ठीपरिग्रहः । धातूनामनेकार्थकत्ववच्च तत्र षष्ठयाः कर्मत्वार्थकत्वात् । ननु चैत्रो ग्राम गच्छतीत्यादौ फललाभाय किं द्वितीयादेः फलजनक शक्तिः, किं वा तत्तहातोः फलजनकत्वे शक्तिरित्यत्र विनिगमनाविरहः धातूनामनेकार्थकत्ववच्च द्वितीया-य ध्यादीनामपि अनेकार्थकत्वमिति न तद्विनिगमकमिति चेत् । न। स्वस्यैकदेशीभूतफले ग्रामादेः प्रातिपदिकार्थस्यानन्वयप्रसङ्गात् । न चेष्टापत्तिः, अदृष्टत्वात् । यदि चाख्यातत्वावच्छेदेन फले शक्तिरिति कर्तृ-कर्मप्रत्ययस्थले तत एव फललाभ इत्युच्यते, तदाख्यातार्थफलस्य धात्वर्थविशेष्यतया अन्वयस्य चैत्रेण गम्यते ग्राम इत्यादौ व्युत्पन्नस्य भङ्गप्रसङ्गात् । काख्यातकर्माल्यातभेदेन व्युत्पत्तिद्वयकल्पने च गौरवमित्यादि स्वयमूहनीयम् । ननु द्वितीयायर्थफलजनकत्वस्य ग्रामेऽसत्वात् कथं तेन सह ग्रामस्यान्वय इत्यत आह–फले चेति । विभक्त्यर्थैकदेशेन सह प्रातिपदिकार्थस्यान्वयः फलावच्छिन्नव्यापारस्य धात्वर्थत्वे ब्राह्मणाय गां ददातीत्यादौ स्वामित्व-जनकत्वरूपचतुयेंकदेशीभूतस्वामित्वे ब्राधणस्य प्रातिपदिकार्थस्यान्वयदर्शनेनाव्युत्पन्न इति लाघवादेकदेशान्वयानभ्युपगमाचाह-फलमात्रं वेति । मात्रपदेन जनकत्वांशव्यवच्छेदः ।
केचिदित्यन्तं मतं दूषयति-तदसदिति । नियतेति । गच्छतीत्यादौ विभागस्य, तरुं त्यजति खग इत्यादौ संयोगरूपफलस्य लाभप्रसङ्ग इति वैपरीत्यमेव कथं न स्यादित्यर्थः । फलविशेषावच्छिन्नेति गमधातोः संयोगावच्छिन्नस्पन्दः, त्यजधातोर्विभागावच्छिन्नस्पन्दोऽर्थोवश्यं वक्तव्य इत्यर्थः । ननु धातोः स्पन्दादावेव शक्तिः गम्यादिसमभिव्याहाराच द्वितीयादेः संयोगत्व-विभागत्वादिना फल्बोधकता भविष्यतीत्यतआह-इतरथेति । गमि-त्यजिप्रभृतीनां स्पन्दत्वावच्छिन्नमात्रशक्तत्वइत्यर्थः। पर्यायत्वापत्तेः । एकधर्मावच्छिन्नशक्तत्वप्रसङ्गात् । न चेष्टापत्तिः, तथा सति कोषादौ तथाभिधानप्रसङ्गादिति भावः । शङ्कते तवापीति । संयोगावच्छिन्नस्पन्दादेर्गम्यायर्थत्ववादिनोऽपीत्यर्थः ।