________________
१३ ग्रन्थः] आख्यातशक्तिवादः ।
.११७ वेत्यन्यदेतत् । अस्तु वा बुद्धिविषयवाचकतदादेरिव व्युत्पत्तिवशादेव प्रकृत्यर्थतावच्छेदकफलतच्छालिवाचकाख्यात-कृतोरपि विशेषरूपेण बोधकत्वम् ॥११॥ नन्त्यमित्यत आह-अस्तु वेति बुद्धिविषयवाचकेति । बुद्धिविषयत्वप्र. त्तिनिमित्तकेत्यर्थः। व्युत्पत्तिवशादेवेति । सामान्यरूपेण शक्तिज्ञानस्यैव विशेषरूपेण शाब्दबोधे तजनकपदार्थोपस्थितौ च कारणतावशादेवेत्यर्थः । प्रकृत्यर्थतावच्छेदकेति फलत्वरूपेण प्रकृत्यर्थतावच्छेदकफल-तच्छालिवाचकेत्यर्थः। प्रकृत्यर्थतावच्छेदकेति स्वरूपकथनम् । विशेषरूपेणेति अक्यतानवच्छेदकेनापि विशेषरूपेणेत्यर्थः । नच येन रूपेण पदार्थोपस्थितिस्तेनैव रूपेण पदे शक्तिज्ञानस्य हेतुतया कथं सामान्यरूपेण शक्तिज्ञानाद्विशेषरूपेण उपस्थितिः विशेषरूपेणोपस्थित्यभावे च कथं विशेषरूपेण शाब्दबोधः, पदार्थोपस्थिति-शाब्दबोधयोरपि समानप्रकारकत्वेन कार्यकारणभावादिति वाच्यम् । तद्भेदेन शकिज्ञानपदार्थोपस्थित्योः कार्य-कारणभावभेदात् । अत्र सामान्यरूपेण शक्तिज्ञानादे विशेषरूपेण पदार्थोपस्थिति-शाब्दबोधयोरभ्युपगमात् ।
परे तु बुद्धिविषयवाचकतदादेरिवेति । यथा तदादिपदस्थले विशिष्य घटत्व-पटत्वादिरूपविशेषधर्मविशिष्टे न शकिः शक्त्यानन्त्यप्रसङ्गात् , नापि स्वप्रयोक्तबुद्धिविशेषविषयत्वविशिष्टे, तदादिपदजन्यशाब्दबोधानन्तरं घटत्वादिप्रकारकसंशयस्य सर्वानुभवविरुद्धत्वात्, किन्तु स्वप्रयोक्तबुद्धिप्रकारत्वेनानुगतीकृतघटत्व-पटत्वादिविशिष्टे तदादिपदशक्तिः, अतो न घटत्व-पटत्वादिभेदे शक्त्यानन्त्यप्रसङ्गइति प्राहुः।
न चैवं नानार्थोच्छेदः हरिपदादेरपि सत्तावत्त्वादेरेव शक्यतावच्छेदकत्वस्य सुवचत्वादिति वाच्यम् । तत्रामरकोषात् तत्तद्रूपेणैव शक्यत्वप्रतीतेरिति भावः । एतच्चाभ्युपेत्योक्तम् । एवमपि फलत्ववबुद्धीच्छाविषयत्वभेदत्वादेरपि विनिगमनाविरहेण शक्यतावच्छेदकत्वापल्या शक्त्यानन्त्यस्य दुर्वारत्वादिति ध्येयम्॥११॥
(राम०) नन्वात्मनेपदस्य फलवाचकत्वेन चैत्रेण ग्रामो गम्यते इत्यादौ ग्रामस्य गमनजन्यफलशालित्वरूपकर्मत्वलाभेऽपि चैत्रो ग्रामं गच्छतीत्यादौ तस्य कथं कर्मतालाभ इत्याशङ्कायां एवंचेत्यादि केचिदित्यन्तमेकं मतं दर्शयामास । एवञ्च ग्रामं गच्छतीत्यादौ फलस्य, पदान्तरालभ्यत्वे चेत्यर्थ एतस्य च ग्रामं गच्छति ग्रामस्य गन्तेत्यादौ द्वितीयादेः फलजनकत्वलक्ष णकर्मत्वमर्थः इत्यग्रेतनेनान्वयः । ननु फलावच्छिन्नव्यापारबोधकधातुत एव चैत्रो ग्रामं गच्छतीत्यादौ फललाभोऽस्तु किं द्वितीयायाः फलजनक
१ उपस्थापकरव मिति पाठः ।