SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११६ वादार्थसंग्रहः [४ भागः तीनां पर्यायत्वापत्तेः । तवापि गम्यते ग्राम इत्यादौ ग्रामादेः संयोगादिफलशालित्वं कुतः प्रतीयत इति चेत्, न । तवच्छिन्नव्यापारवाचिधातुसमभिव्याहाँरादेव, यथा इष्टसाधनत्ववाचकाद्विधेरेव स्वर्गकामादिपदसमभिव्याहारात् स्वर्गादिजनकत्वं, प्रतीतिस्त्विष्ट-फलयोरिष्टत्व-फलत्वाभ्यां स्वर्गत्व-संयोगत्वाभ्यां संयोगत्व-विभागत्वादिविशिष्टालाभेऽपि न क्षतिरिति वाच्यम् । तदलाभे गहादामं गच्छतो गेमने ग्रामस्य गमनं न गृहस्य, दृक्षं त्यजतस्त्यागे वृक्षस्य त्यागो न तु भूमेरित्यादयो व्यवहाराः स्वारसिका न स्युः, गृह-भूमिटत्तिफलजनकत्वसामान्याभावस्य तत्रासत्त्वात, तक्रियया गृह-भूमिटत्तिविभागोत्तरसंयोगरूपफलजननादिति भावः। ननु द्वितीयादेः संयोगत्वादिनैव फलमर्थ इति न फलविशेषाभावः, गमादिधा तुविशेषसमभिव्याहारश्च प्रत्ययनियामक इत्यत आह-इतरथेति । फलविशेपावच्छिन्नक्रियाया धात्वर्थत्वानभ्युपगमे इत्यर्थः । पर्यायत्वेति । एकस्या. अयक्रियायाः पूर्वदेशत्यागोत्तरदेशगमनरूपत्वेन शक्यतावच्छेदकस्याभेदादिति भावः । अथ पर्यायतायामिष्टापत्तिः, कर्मासमभिव्याहृते गच्छति त्यजतीत्यादौ बोधस्य वैलक्षण्यानुभवे तु तत्र तत्तत्फलावच्छिन्नक्रियायां निरूढलक्षणा । न चैवं ग्रामं त्यजतीत्यादौ ग्रामं गच्छतीत्यापत्तिरिति वाच्यम् । गमिसमभिव्याहृत द्वितीयादेः संयोगस्य त्यजिसमभिव्याहृतद्वितीयादेविभागस्य बोधकत्वादेव तद्वारणसंभवादिति चेत् । न । त्यजि-गम्योः पर्यायत्वाभावस्य सकलप्रामाणिकसिद्धत्वात्. कर्मासमभिव्याहृते गच्छति-त्यजतीत्यादौ स्वारसिकविलक्षणबोधस्याप्यनुभव. सिद्धत्वाचेति निगर्भः । ननु तथापि गम्यते ग्राम इत्यादौ धात्वथैकदेशीभूतसं. योगादेमे अन्वयासंभवात् आत्मनेपदस्य च फलसामान्यवाचकत्वात् गमनजन्यसंयोगरूपफलशालित्वप्रत्ययः कथं स्यादित्याशङ्कते-तवापीति । तद. वच्छिन्नेति विशेष्यसंयोगावच्छिन्नेत्यर्थः । समभिव्याहारादेवेतिच्छेदः । गम्यते ग्राम इत्यादौ ग्रामादेः संयोगशालित्वं प्रतीयत इति पूर्वेणान्वयः । तवापि धातुविशेषसमभिव्याहारात्तथा संभवेऽपि त्यजि-गमिप्रभृतीनां पर्यायतापत्तेर्दुर्वारत्वादिति भावः । समभिव्याहारविशेषाद्विशेषप्रत्यये दृष्टान्तमाह-यथेत्यादि । स्वर्गादिजनकत्वमिति । प्रतीयत इत्यनुषज्यते। ननु फलत्वेन प्रतीतौ इत्यनुभवविरोधः संयोगवादिनैव प्रत्ययस्यानुभवसिइत्वात्, संयोगत्वादिना प्रतीतौ तु तेन रूपेण शक्तिरावश्यकी तथाच शक्त्या
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy