________________
१३ ग्रन्थः ] आख्यातशक्तिवादः।
११५ न्वेति, फलमात्रं वा अर्थः, जनकत्वन्तु संसर्गमर्यादया लभ्यतइति केचित् , तदसत्, ग्रामं गच्छति त्यजतीत्यादौ द्वितीयादितः फलसामान्यलाभेऽपि नियतसंयोग-विभागाद्यलाभेन फलविशेषावच्छिन्नव्यापारस्यैव धात्वर्थत्वात् । इतरथा त्यजि-गमिप्रभृतदेकदेशे चाधेयत्वे निरूपितस्वसंबन्धेन । प्रकृत्यर्थोऽन्वेति इति कस्यचिन्मतं निराकृतम् । एकदेशान्वयप्रसङ्गेन लाघवानुरोधेन चाह-फलमात्रमिति फलत्वविशिष्टमात्रमित्यर्थः । फलत्वं च कार्यत्वम् । संसर्गमर्यादयेति । फलधात्वर्थयोः संसर्गविधयेत्यर्थः ।
अत्र केचित्-फलमात्रस्य कर्मषष्ठ्यर्थत्वे वृत्यनियामकसंबन्धस्याभावप्रतियोगितानवच्छेदकत्वनये पाको न तेमनस्येति व्यवहारानपपत्तिः, जनकतासंबन्धस्य तृत्त्यनियामकत्वात्, सत्यनियामकसंबन्धस्य प्रतियोगितावच्छेदकत्वनयेऽपि तदभावस्य केवलान्वयित्वनियमेन तेमनीयपाकेऽपि न तेमनस्येति व्यवहारापत्तिः एवं फलमात्रस्य द्वितीयार्थत्वेऽपि यदि कर्मजसंयोगानधिकरणद्रव्यं प्रसिद्ध, तदा तत्रामुं न गच्छतीति प्रयोगानुपपत्तिः, तत्कर्मकगमनस्याप्रसिद्धना तदाश्रयत्वा. भावस्य तत्र प्रत्येतुमशक्यत्वात् । जनकतासंबन्धस्याभावप्रतियोगितानवच्छेदकनया गमनत्वावच्छेदेन द्वितीयार्थस्य तनिष्टसंयोगस्य तेन संबन्धेनाभावप्रत्ययासंभवात् , तस्याभावप्रतियोगितावच्छेदकत्वे तदभावस्य केवलान्वयित्वनियमेन गमनकर्मण्यपि देशे अमुं न गच्छतीति प्रयोगप्रसङ्गः, गमनत्वावच्छेदेन जनक. तासंबन्धेन तनिष्टसंयोगाभावस्य सत्त्वात् । तस्मात् फलजनकत्वं खण्डशः फलं जनकत्वं वा द्वितीयादेरर्थः । नचैवमपि रूपं न गच्छतीति प्रयोगानुपपत्तिः, तनिष्ठसंयोगाप्रसिद्धेरिति वाच्यम् । फलजनकत्ववदाधेयत्वस्यापि द्वितीयावर्थतया संयोगत्वावच्छेदेन रूपाधेयत्वाभावस्यैव तत्र प्रत्ययात, रूपं न गच्छति रस इत्यादौ चाकाशं न पश्यत्यन्ध इत्यादाविव नमर्थस्य वारद्वयमन्वय इत्याहुः। । तदसत् । लाघवात् द्वितीयादेः संयोगावात्मके फले शक्ताबुदाहृतस्थले संयोगजनकत्वादी लक्षणाभ्युपगमात्, वृत्यनियामकसंबन्धावच्छिन्नप्रतियोगिताकाभावमात्रस्य केवलान्वयित्वे मानाभावाचेति ध्येयम् ।
फलसामान्यलाभेऽपीति फलत्वरूपेण फललाभेऽपीत्यर्थः । नियतसंयोग-विभागाधलाभेनेति । संयोगत्व-विभागत्वादिविशिष्ट अतिवमादिकं विना संयोगत्वविभापत्वादिविशिष्टस्य लाभासंभवेनेत्यर्थः । फलविशेषेति संयोगत्वविभागत्वादिविशिष्टेत्यर्थः । धात्वर्थत्वात् गम-त्यजादिधात्वर्थत्वात् । द्वितीयादेश्चाधेयत्वमर्थः स च धात्वर्थैकदेशे संयोगादावन्वेति । न च विशिष्य