________________
११४
वादार्थसंग्रहः
[ ४ भागः
एवं च गतो ग्रामो गम्यत इत्यादौ फलस्य कृदात्मनेपदाभ्यामेव लाभात् लाघवाद्धातोरनन्यलभ्यव्यापारविशेषमात्रवाचकत्वस्थितौ ग्रामं गच्छति ग्रामस्य गन्तेत्यादौ द्वितीयादेः फलजनकत्वलक्षणं कर्मत्वमर्थः । फले च प्रातिपदिकार्थोऽधिकरणत्वेनाकत्वादन्यथा पदमात्रस्य विनिगमकाभावाजातिमात्रशक्त्यापत्तेः क्वचिदुक्तयैव लक्षणानिर्वाहादिति चेत् तुल्यं प्रकृतेऽपीत्याह — केवलेति । स्वारसिकेति । कोशव्याकरणादिकृतां स्वारसिकप्रयोगेत्यर्थः । तेन भ्रान्तस्य लक्षणया कोशादिकर्तुरपि विशेषणमात्रे प्रयोगेऽपि न क्षतिः ।
ननु चैत्रो गन्ता चैत्रो ग्रामं गत इत्यादावेव कृतौ मुख्यः प्रयोगः । सामानाधिकरण्यं च पदसाधुत्वाय । भोक्ता तृप्यतीत्यादौ लक्षणेति दुर्वारम् । अनुशासनानुरोधेनाख्यातस्यापि कर्तरि शक्तिसिद्धिरिति चेत् न । तृप्येत गन्ताचैत्र इत्यादौ कर्तृबोधकस्य क्लृप्तत्वाच्चैत्रो गन्तेत्यादौ अपि तथात्वमित्याशयात् । यत्तु तुमुनादिप्रत्ययस्य कृत्यादावेव शक्तिः । क्तान्तादेव्ययत्वेन तदर्थस्य भेदेनाप्यन्वये विरोधात् । अत एव क्तान्ताद्यन्तोत्तरं प्रथमैवानुशिष्टा । अन्यथा चैत्रेण वक्ता गतमित्यादौ अभेदान्वये तृतीयादेरेवाभावापत्तेः । समानविभक्तिकत्वादेस्तत्र प्रयोजकत्वादिति तन्न । भुक्त्वा व्रजतीत्यादिमात्राद्भोजनकर्ता भोजनोत्तरं व्रजनाश्रय इत्यादिबोधो न युज्यते ।
केचित्त कस्यचित्रो ग्रामं गत इत्यादौ कृतिबोधः कस्यचिच्च कर्तृबोधस्तत्र कृतावेव लाघवाच्छक्तिः । समानविभक्त्यादिकं पदसाधुत्वायैव । कर्तृबोधस्तु लक्षणया शक्तिभ्रमेण वा । तथैव समानविभक्त्यादिकमर्थ साधुत्वायेत्याहुः ॥ १० ॥
( मथु० ) एवंघेत्यारभ्य केचिदित्यन्तं एकमतम् । एवञ्च कर्मत्वरूपस्य फलस्य विशेषणविधया कृतो विशेष्यविधया चात्मनेपदस्य शक्यत्वे च । कृदात्मनेपदाभ्यामिति । कृता विशेषणतया विशेष्यतया चात्मनेपदेन लाभ इति भावः । व्यापारविशेषः पाकादिक्रिया । धातोः फलावच्छिन्नव्यापारवाचित्रे तत एव फललाभ संभवेन द्वितीयादे, फलमर्थो न सिद्धयतीत्यतस्तद्व्यवच्छेदाय मात्रपदम् । द्वितीयादेरित्यादिपदात् षष्ठीपरिग्रहः । फलजनकत्वं फलत्वविशिष्टजनकत्वम् । अर्थ इति, अन्यथा तत्र तत्प्रतीतेरनुपपत्तेरिति भावः । फले च द्वितीयाद्यर्थैकदेशे फले च प्रातिपदिकार्थः प्रकृत्यर्थः अधिकरणत्वेन आधेयतासंबन्धेन । एतेन आधेयतावत्फलजनकत्वमर्थः ।