________________
१३ प्रन्थः ]
आख्यातशक्तिवादः ।
११३
लाघवात्तत्रैव तत्कल्पनमस्त्वित्यत आह- गोत्वा दिनेत्यादि । गोत्वत्वस्य गवे तरासमवेतत्वे सति गोनिष्ठान्योन्याभावप्रतियोगितानवच्छेदकत्वरूपतया गौरवादिति भावः | विशिष्टान्तराणामिति । शब्दविशिष्टमहत्वविशिष्टादीनामित्यर्थः । शक्यत्वमिति । आकाशपदमहत्पदशक्यत्वमित्यर्थः । तत्रापि शब्दादिविशिष्टे शक्तिकल्पने ऽनन्तशब्दादौ शक्यतावच्छेदकत्वस्वीकारे गौरवं, शब्दादौ तच्छक्यत्वकल्पने तु शब्दत्वजातेः शक्यतावच्छेदकत्वस्वीकारे लाघवमिति, तत्रापि शब्दादावेव शक्तिकल्पनं स्यादिति भावः । तुल्य एवेति । कृत्प्रत्ययस्थलेऽप्यविशिष्ट इत्यर्थः । तथा च यथा शब्दादावाकाशादिपदस्य स्वारसिकप्रयोगाभावात्तत्र न तस्य शक्यत्वं तथा कर्तृविहितकृत्प्रत्ययस्य कृतावपि स्वारसिकप्रयोगाभावात्तत्रापि न तस्य शक्यत्वमिति भावः ॥ १० ॥
( जय०) सुब्विभक्तिवारणाय धातूत्तरेति । लक्षणेति । एतदर्थमेव कृत्प्रत्ययस्य कृतौ शक्तिकल्पनमिति भावः । भावकृतोऽपीति । तथाच पाकं करोति पाकक्रियेत्यादौ घनादेरपि कृतिशक्तत्वेऽनन्वयापत्तिरिति भावः । ननु तत्र विशेषानुशासनात् भावप्रत्ययस्य धात्वर्थातिरिक्तो नार्थः । विशेषानुशासनाविषयतादृशप्रत्ययत्वमेव हि कृतिशक्ततावच्छेदकमित्यत्राह - धातुत्वादीति । नन्वाख्यातत्वं तिप्त्वादिकं वा कृत्त्वं तृच्त्वादिकं वा शक्ततावच्छेदकं परंतु कृतावेव शक्तिर्लाघवात् कृतिविशिष्टे तु लक्षणेत्याशङ्कय निराकरोति---यदपीति । यतो विशिष्टान्तराणां शक्यत्वं विलीयेतेत्यन्वयः । विशिष्टान्तराणां जात्य1 तिरिक्तविशिष्टानां च शब्दाश्रयत्वादिविशिष्टानां गगनादिपदशक्यत्वं विलीयेतेत्यन्वयः । तथा च शब्दाश्रयत्वादिविशिष्टानां गगनादिपदशक्यत्वं न स्यात् । लाघवाच्छब्दे शक्तिस्तद्विशिष्ठे लक्षणेति वक्तुं शक्यत्वादिति भावः । जातिविशिष्टे एव कथं शक्तिरित्यत्राह - विनेति । इदं शक्त्या शक्यार्थस्मरणं ततो लक्ष्यार्थस्मरणं शक्यस्मरणं किंचिद्धर्मप्रकारकमेव निर्विकल्पकस्मरणाभावात्तद्धर्मविशिष्टस्मरणं च तद्धर्मविशिष्टे संबन्धग्रहं विना नेति शक्तेः सावच्छिन्नत्वनियमसिद्धिरित्यभिप्रेत्य । यदि च पदेनाहृत्यैव शक्यसंबन्धेन स्मरणमित्युपेयते शक्यसंबन्धनिर्वाहार्थं च शक्तिरुपयुज्यते तदा गवादिपदानामपि केवले गोत्वादौ शक्तिः । शक्तेः सावच्छिन्नत्वनियमस्याप्रयोजकत्वेनासत्वाद्गोत्वविशिष्टे लक्षणेत्यस्य सुवचत्वाद्विशिष्टमात्रस्यैव शक्यत्वं विलीयेतेत्यभिप्रायः । न च केवले गोत्वे व्युत्पत्यसंभवः । गोशब्दबोधस्य लक्षणया संपादनार्थमेव निरुक्तलाघवदर्शिनः प्रथमं तत्संभवात् । अथ कोशादितो विशिष्टशक्तिसिद्धि: । कोशादेस्तद् ग्राहकत्वावश्य
I