SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११२ वादार्थसंग्रहः [४ भागः कृतौ मुख्यप्रयोगविरहेण तुल्यतेत्यर्थः । यद्यपि शब्दोऽस्तीति प्रयोग एव मुख्यः प्रयोग आकाशपदस्थले, एवं गतं प्रमेयमित्यादावेव कर्तृकृतः कृतौ मुख्यप्रयोग इत्येतदसङ्गतं, तथापि तथा प्रयोगमनभ्युपगम्य इदमुक्तमिति संक्षेपः ॥ १०॥ (रघु०) कस्यचिन्मतं दूषयितुं तन्मतमनुवदति--यत्त्विति । धातूत्तरप्रत्ययत्वेन कृतौ शक्तिरिति । धातूत्तरप्रत्ययत्वमेव कृतिशक्ततावच्छेदकमित्यर्थः। तथाच शक्यतावच्छेदकलाघवात्सर्वत्र कृतावेव शक्तिः, नत्वाख्यातस्य कृतौ शक्तिः कृत्प्रत्ययस्य कर्तरि शक्तिरिति । तथासति विभिन्नशक्यतावच्छेदकादिकल्पने गौरवादिति भावः । ननु कृत्प्रत्ययस्य कृतिशक्तत्वे देवदत्त: पाचक इत्यादौ देवदत्तादिपदार्थे पाचकाद्यर्थस्य कथमभेदान्वयबोधः, तत्राभेदान्वयबोधस्यैवानुभवसिद्धतया प्रकारान्तरस्य वक्तुमशक्यत्वादित्यत आह---पाचकादिपदे त्वित्यादि । सामानाधिकरण्यानुरोधादभेदान्वयबोधानुरोधात् । लक्षणेति । तथा च तत्र तथान्वयानुभवस्य कृत: कर्तरि लक्षणयैव निर्वाहेऽलं तत्र शक्तिकल्पनेनेति भावः । भावकृतोऽपीति । शक्ततावच्छेदकावच्छिन्नस्य शक्यबोधकत्वनियमादिति भावः। ननु धातूत्तरप्रत्ययत्वस्य कृतिशक्ततावच्छेदकत्वेऽपि भावकृतो न कृतिबोधकत्वं तथाविधबोधे भावकृदादिव्यावृत्तानुपूर्वी विशेषस्यैव नियामकत्वाभ्युपगमादित्यत आह-धातुत्वादिघटितेत्यादि । आदिपदात्प्रत्ययत्वादिपरिग्रहः । तस्माद्धातूत्तरप्रत्ययत्वाद्भवाद्यन्यतमत्वं विना धातुत्वस्य प्रकारान्तरेण निर्वक्तुमशक्यतया आख्याताद्यन्यतमत्वं विना प्रत्ययत्वस्यापीति तदवेक्षया रूढिसंबन्धेन आख्यातपदवत्त्वरूपाख्यातत्वस्यैव लघोः कृतिशक्ततावच्छेदकत्वौचित्यमिति भावः । एतेनाख्यातमात्रस्य कृतिवाचकत्वे कृतिशक्ततावच्छेदकमाख्यातत्वमेवं कृतः कर्तृमात्रवाचकत्वे कृत्प्रत्ययत्वं कर्तृशक्ततावच्छेदकमिति गौरवम् । एतदपेक्षया एकस्यैव धातूत्तरप्रत्ययत्वस्य कृतिशक्ततावच्छेदकत्वमुचितमित्यपि परा. स्तम् । प्रत्ययत्वस्याख्यातत्वकृत्त्वघटितत्वेन लाघवानवकाशादिति । कृती शक्तिरिति । कृतिविशिष्टे कर्तृकृत: शक्तिकल्पनेऽनन्तकृतौ तच्छक्यतावच्छेदकत्वकल्पनागौरवम् । कृतीतत्कल्पने तु कृतित्वजातेरेव तच्छक्यतावच्छेदकत्वकल्पने लाघवमिति तत्रैव तत्कल्पनमुचितमिति भावः । यत इत्यादि । शक्यत्वासंभवादित्यन्तस्य गवादिपदानां गोत्वविशिष्टं शक्यमित्यनेनान्वयः । ननु गवादिपदस्य गोत्वविशिष्टे शक्तिकल्पने गोत्वेऽपि शक्तिकल्पनस्यावश्यकतया १ "त्वात् । एवमा इति पाठः ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy