________________
१३ ग्रन्थः]
आख्यातशक्तिवादः।
१११
रित्यत आह-केवलेति । विशेषणतानापन्ने चेत्यर्थः । तुल्य एवेति इहापि कृतः कृतौ शक्त्या प्रयोगस्य विरहादिति भावः ॥ १० ॥
(राम०) कृतः कृतिविशिष्टप्रत्ययस्य लक्षणात एवेतिमतं प्रसङ्गतो निरसितुमाह-यदपीति । एतन्मते यद्यपि गवादिपदानामेव गोत्वादिविशिष्ट शक्तिरायाति तथापि शब्दवि शिष्टादिबोधकानामाकाशादिपदानां शब्दविशिष्टादौ शक्तिर्न स्यात् तत्रापि लाघवात् शब्दत्वविशिष्टे शक्तिः शब्दविशिष्टादौ लक्षणेत्यस्य वक्तुं शक्यत्वादिति दोषमाह-यतोविनेति । यत इत्यस्य विशिष्टान्तराणां शक्यत्वं विलीयेतेत्यनेनान्वयः । तत्र च विशिष्टान्तराणामित्यस्य गोत्वविशिष्टादिभिन्नशब्दविशिष्टादीनामित्यर्थः । शक्यत्वं आकाशादिपदशक्यत्वं, विलीयेत न स्यात् । ननु विशिष्टान्तराणामित्यत्रान्तरपदं किमर्थमुक्तं विशिष्टसामान्यस्यैवोतरीत्या शक्यत्वविलयसंभवादिति गवादिपदस्य गोत्वादिविशिष्टशक्तिव्यवस्थापनेन स्वोक्तमन्तरपदं सार्थकयति-विनेति। विनेत्यादि गौरवादित्यन्तं गवादिपदानां गोत्वविशिष्टं शक्यमस्तु इत्यत्र हेतुः। अत्रायमर्थः-गवादिपदानां यदि गोत्वे शक्तिरुच्यते तदा शक्तेः सावच्छेद्यत्वनियमाद्गोत्वत्वं शक्यतावच्छेदकं वाच्यं, तथाच स्वरूपतो गोत्वविशिष्टापेक्षया गोत्वत्वविशिष्टं गुरु इति तन्न शक्यमिति लाघवेन गोपदादीनां गोत्वादिजातिविशिष्टशक्तिरस्त्विति। . __ नन्वाकाशादिपदानां शुद्धशब्दादौ मुख्यप्रयोगविरहेण न शकिः कृत्युपलक्षित एव कृत्प्रत्ययस्य शक्तिः न तु कृतिविशिष्टे कृत्यंशेऽपि कृत्प्रत्ययशक्तिकल्पने गौरवादितिमते न कृता कृतेरभिधानमिति तन्मते आख्यातकृत्साधारणसूत्रार्थरक्षणं ये कुर्वन्ति तन्मतमाह-यत्त्विति । तथाच चैत्रः पक्तत्यादौ कृता कृत्यभिधानान्न तृतीयेति भावः । नन्वेवं चैत्रः पचतीत्यादाविव पाचकादिपदात् पाकानुकूलकृते. राश्रयतासंबन्धेन चैत्रादावन्वय एव बोध्यस्तथाच चैत्रः पाचक इत्यादौ चैत्रे पाककर्तुरभेदान्वयबोधो न स्यादित्यत आह-पाचकादीति सामानाधिकरण्येति ।पाचकादिपदार्थाभेदान्वयबोधानुरोधादित्यर्थः पाचकादीत्यादिपदेन तुजन्तादिपरिग्रहः आदिपदेन चैत्रपद-पाचकादीनां भिन्नाभ्यां रूपाभ्यामकथर्मिनक्तत्वरूपसामानाधिकरण्यस्य परिपहः। भावकृत इति। न चेष्टापत्तिः, अपसिद्वान्तादिति भावः।नियुक्तिकसिद्धान्तभङ्गे न दोष इत्यत आह-धातुत्वादीति । तस्मात् धातूत्तरप्रत्ययत्वात् धात्वाधन्यतमत्वघटितधातूत्तरप्रत्ययत्वमपेक्ष्याख्यातत्वं लघु इति तदेव कृतिशक्ततावच्छेदकमिति भावः । इत्थंच कृत्प्रत्ययस्य कृतिविशिष्ट एव शक्तिर्न तदुपलक्षित इति । मतमाश्रित्यैवानभिहिताधिकारसूत्रार्थो निर्वहतीति तदेवमादरणीयमित्यवधेयम् । आख्यातस्येव कर्तृकृतः कृतौ न शक्तिलाघवात् अपि तु सर्वत्र । ननु शब्दविशिष्टे तत्र मुख्यप्रयोगात् शक्तिः शङ्कया मुख्यार्थबोधकत्वनियतत्वात् इत्यत आह-केवलेति । तुल्य इति । कर्तृकृतोऽपि