SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११० वादार्थसंग्रहः [४ भागः यत्तु धातूत्तरप्रत्ययत्वेनैव कृतौ शक्तिः पाचकादिपदे तु सामानाधिकरण्यानुरोधात् कृतिविशिष्टे लक्षणेति, तन्न, भावकृतोऽपि कृतिवाचकतापत्तेः, धातुत्वादिघटितात्तस्मादाख्यातत्वस्यैव लघुत्वाच । यदपि कर्तृकृतोऽपि कृतौ शक्तिः कृतिविशिष्टे तु लक्षणैवेति, तद्प्यसत्, यतो विनावच्छेदकरूपं शक्यत्वासंभवात् , गोत्वत्वादिना शक्तौ चातिगौरवादस्तु गवादिपदानां गोत्वविशिष्टं शक्यं विशिष्टान्तराणांतु शक्यत्वं विलीयेत।केवलविशेषणे स्वारसिकप्रयोगविरहस्तुल्य एवेति ॥ १०॥ (मथु० ) यत्त्विति । आख्यातस्य कृतौ शक्तिकल्पनदशायां तथैव लाघ वेन कल्पनादिति भावः । अत्र द्वितीयादिवारणाय धातूत्तरेति । नन्वेवं पाचको भुढे इत्यादौ पाककर्तृबोधः कथं स्यात् इत्यत आह-पाचकादीति । आदिपदाद चैत्रो गन्तेत्यादौ गन्त्रादिपदपरिग्रहः। लक्षणेतीति । एवंच मुख्यप्रयोगाभावेऽपि कृतः शक्तिकल्पनं शक्यसंबन्धरूपायाः लक्षणायाः संपादनार्थमेवेति भावः । भावकृतोऽपीति घादेरपीत्यर्थः । तथाच तस्य निरर्थकत्वप्रवादव्याघात इति भावः। ननु भावकृतो घलादेः कृतिवाचकत्वेऽपि निराकान्तया न ततः कस्यापि अर्थस्य प्रत्यय इति व्यवहारः, अन्यथा तथा भावविहितघलादेरपि घभत्वादिना करणेऽधिकरणे वा शक्ततया भवतामपि तत्र निरर्थकत्वव्यवहारः कथं स्यात् । वस्तुतस्तु प्रतीयते येनार्थः स प्रत्यय इति व्युत्पत्तिसिहस्य तावदन्यान्यत्वरूपप्रत्ययत्वस्य अन्तर्भावादेव भावविहितघनादेर्व्यवच्छेद इत्यत आह-धातुत्वादीति । आदिपदेन उत्तरत्व-प्रत्ययत्वपरिग्रहः । आख्यातत्वस्यैवेति तिहबादेरेवेत्यर्थः । कृतोऽपीति तृच्त्वादिनेति शेषः । कृताविति लाघवादिति शेषः। गवादिपदानां विशिष्टे शक्ति व्यवस्थापयति-यत इति । शक्यत्वासम्भवादिति कार्यत्वादिवत् शक्यत्वस्यापि अवच्छिन्नत्वनियमाव इति भावः । विशिटान्तराणां स्विति गुरुत्व-महत्त्वादिविशिष्टानां तु गुरुपद-महत्पदादिशक्यत्वं विलीयेतेत्यर्थः । तत्रापि गुरुत्वत्व-महत्त्वत्वादिजातिरूपेण गुरुत्वमहत्वादावेव शक्तिः, गुरुत्वादिविशिष्टे लक्षणा इत्यस्य सुवचत्वादिति भावः । अथ यत्र यत्पदस्य शक्त्या प्रयोगस्तत्रैव तत्पदस्य शक्तिः अतो गुरुत्वादौ न गुर्वादिपदशक्ति
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy