________________
१३ ग्रन्थः] आख्यातशक्तिवादः। त्वादेर्गौरवादिति हृदयम् । ननु कृतः कृत्याश्रयादिवाचकत्वे तदेकदेशकृत्यादौ कथं धात्वर्थान्वय इत्यत आह-चैत्रस्येति । स्वजन्यशरीरजन्यशरीरं नप्तृपदार्थः । तत्र मुख्यविशिष्ये षष्ठयर्थस्य जन्यत्वस्यान्वये चैत्रस्य पुत्रे चैत्रस्य नतेति प्रयोगः स्यान्न स्याच पौत्रे चैत्रशरीरजन्यशरीरजन्यशरीरे चैत्रजन्यस्व. स्यासत्त्वात् चैत्रपुत्रे चैत्रजन्यत्वस्य सत्वाचेत्यन्वयो वाच्य इति भावः । नन्वस्तु नप्तृपदार्थः शरीरमात्रं, स्वजन्यशरीरजन्यत्वं तु नप्तृपदसमभिव्याहारिषष्ठयर्थः फलस्य धात्वर्थवत् परस्परसमन्वयात् । षष्ठयर्थनिरूपितत्वान्वितप्रयोज्यत्वस्य शरीरेऽन्वयाद्विशिष्टलाभ एकशक्तिविषययोः शरीरयोमिथोऽन्वयादेव वा तल्लाभ इत्यत आह-चैत्रादन्य इति । अन्यपदस्य पृथक्त्वविशिष्टे भेदविशिष्टे वा शक्तरुपगमादेकदेशे पृथक्त्वे भेदे वा तदन्वय आवश्यक इति भावः ।
ननु चैत्रादन्यइत्यादौ पञ्चम्यर्थावधिमत्त्वादे: स्वाश्रयपृथक्त्वाश्रयत्वसंबन्धेन मुख्यविशेष्य एवान्वयो वाच्य इति चेत् प्रकृतेऽपि तथैव वाच्यमित्यभिप्रेत्याहअस्तु वेति । पक्तेत्यादौ स्वानुकूलकृत्याश्रयत्वादिसंबन्धेन पाकादेः कादावेवान्वय इति भावः । अत्र चैत्रस्य नप्तेत्यादौ मुख्यविशेष्ये षष्ठयर्थान्वय. स्वीकारे चैत्रस्य नप्तेत्यादिवाक्यजबोधश्चैत्रपुत्रजन्यो न वेत्यादिसंशयविरोधी व्यावर्तकदर्शनतयेति बोध्यम् । इदं तु बोध्यम्-वाकारोऽस्वरसखूचनाय । अन्यथा पचन पचतीत्यादेरपि प्रयोगस्य प्रसङ्गादिति । नन्वस्तु यथातथान्वयः कृत्प्रत्ययार्थे धात्वर्थस्य भेदान्वये पक्ता गमनमित्यादावपि गमनादेराधारतया पत्रादावन्वय: स्यादिति चेन्न । यादृशसमुदायस्य प्रातिपदिकसंज्ञा तादृशार्थे भेदेनान्वयस्यास्वीकारादत एव कृत्तद्धितेत्त्यादिसूत्रं समुदायस्य प्रातिपदिकसंज्ञालाभाय । एवमौपगवमित्यादावपि समासे समुदायस्य प्रातिपादिकसंज्ञा चित्रगुर्देवदत्त इत्यादौ चित्रगुसमुदायादेरेकपदत्वाय विशेष्यलिङ्गग्राहित्वार्य च । अन्यया चित्रम्वादिपदान्तर्गतगवादिपदस्याजहल्लिङ्गतया तन्न स्यात् । वस्तुतः प्रकृत्यर्थभिन्नस्य न कृदर्थे भेदान्वयो न वा पृथगादिपदार्थैकदेशे पञ्चम्यादिभिन्नार्थस्यान्वयोऽन्यथा घटात्पृथक् पटे इत्यादितः सप्तम्याद्यर्थस्य पृथक्त्वाद्यन्वयापत्तेरिति बोध्यम् ।आख्यातकृत्साधारणमनभिहिताऽधिकारीयद्वितीयादिनियममाह-फलादीति । आदिपदाद्धटं जानातीत्यादौ विषयतादिपरिग्रहः। कृत्यादीत्यादिपदेन पूर्वोक्ताश्रयत्वादिपरिग्रहः । ननु कथमयं नियमः कर्मत्वकर्तृस्वादिविशिष्टस्यैव कृताभिधानादित्यत्राह-कृतेति ॥ ९॥