________________
१०८
वादार्थसंग्रहः
[४ भागः
नादिति कर्मत्वादेरपि बोधनादित्यर्थः । तथा च कृत्प्रत्ययेन यत्र विशेषणविधया विशेष्यविधया वा कर्मत्वादिकं न बोध्यते तत्रापि द्वितीयादय इत्येको निमयः । एवमाख्यातेन यत्र कर्मत्वादिकं न बोध्यते तत्रापि द्वितीयादय इत्यपरो नियम: स्वीक्रियते न तु कर्मादिगतसंख्यानभिधानघटितोऽपि नियम इति नोक्तानुपपत्तिरिति भावः ॥ ९ ॥
(जय०) नन्वेवं कृत्प्रत्ययस्यापि कर्तृकर्मणोः शक्तिर्न स्याल्लाघवेन कृति'फलयोरेव शक्तेस्तत्राप्युचितत्वात् । न चैवं चैत्रो गन्तेत्यादौ कथमन्वयः अभेदेनायोग्यत्वात् , भेदेन प्रातिपदिकयोरनन्वयादिति वाच्यम् । अव्ययनिपातवत्प्रातिपदिकस्यापि भेदेनानुभावकत्वात् । अन्यथा पदार्थयोरेव भेदेनान्वयो निराकाङ्क्ष इत्याख्यातादेरपि धर्मिशक्ति: स्यात्तत आह-चैत्रो गन्तेति । प्रथमे कर्तुरशक्यत्वे द्वितीये च फलाश्रयस्याशक्यत्वे पुलिङ्गता , तृतीये कृतिमतोऽशक्यत्वे स्त्रीलिङ्गता, चतुर्थे फलाश्रयस्याशक्यत्वे नपुंसकलिङ्गताऽनुपपन्ना स्यादिति विशेषः, अभेदान्वये समानवचनविभक्त्यादिमत्त्वमनुपयु. क्तम् । अभेदान्वयबोध एव तेषामर्थसाधुत्वायोपयोगात् । विरुद्धसंख्याद्यवच्छिन्ने विरुद्धसंख्याधवच्छिन्नस्याभेदान्वयासंभवात् । विवक्षया तु कचिदन्यथा पृथिव्यादयो द्रव्यमित्यादौ । अत्रैकत्वस्य बुद्धिविशेषविषयत्वरूपस्य बहुत्वेनाविरोधादिति । न च भोक्ता पक्रीत्यादिगतवचनप्रत्ययाद्यर्थसंख्यालिङ्गादेश्चैत्रमैत्रादिपदार्थेऽन्वयाद्भेदान्वयेऽप्यर्थसाधुत्वं वचनाद्यर्थस्य प्रकृत्यर्थ एवान्वयात् । ननु लाघवात्कृतिफलयोः शक्यत्वे सिद्धे एक: पचति द्वौ गच्छत इत्यादाविव विशेषणविभक्त्यादेः साधुत्वमात्रार्थतया श्यामः पुमान् श्यामा स्त्रीत्यादाविव समानविभक्त्यादिमत्त्वरूपं सामानाधिकरण्यं शब्दसाधुत्वायैवोपयोश्यते । क्वचिदतथात्वेऽपि साधुत्वं प्रयोगानुसारात् । अन्यथाख्यातेऽपि धर्मशक्तिप्रसङ्गाद्विरुद्धविभक्त्यादे राहित्यस्याभेदान्वयप्रयोजकत्वकल्पनादेकर्मिरूपं सामानाधिकरण्यं प्रसिद्धमेवेत्यत आह-भोक्तेति । अत्र भोजनानुकूलकृतौ कृत्याश्रयत्वं, भोजने च पाकफलविक्लित्त्यादिकर्मकत्वं बाधितमिति भावः । कर्मण्युदाहरति-पक्तेति । आदिना पक्वानि भुज्यन्तामित्यादर्ग्रहणम् ।।
सामानाधिकरण्यादीत्यादिपदागोकादौ तृप्त्याश्रयत्वादि रिग्रहः । कर्तृकर्मेति । कत्यादौ तृजादेः कर्ता, गन्तव्यो ग्राम इत्यादौ तव्यादेः कर्म, गत इत्यादेरुभयं वाच्यम् । स्नानीयं चूर्ण दानीयो ब्राह्मण आसितमित्यादौ करणत्वसंप्रदानत्वाधिकरणत्वाद्यवच्छिन्ने तु कृतौ लक्षणा कर्तृत्वाद्यपेक्षया करण