Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 23
________________ सोडलविरचिता येनान्तराधृतभरेण धराधिपत्ये राज्ञां जयत्यहतविस्तरमातपत्रम् ॥ किं बहुना। तृतीयमकृतोन्मेषं कायस्थ इति लोचनम् । राजवर्गो वहन्नेष भवेदत्र महेश्वरः ॥ तस्मिन्नशेषभुवनविख्यातनामनि महावंशे दलितकलिकलङ्कसंहतिरमृतमयाकारकमनीयो नर्मदाप्रवाह इव भूतिलकमधिष्ठितो लाटदेशमासीदुमेशवंशावतीर्णस्य महात्मनश्चण्डपतेरङ्गजन्मा सोल्लपेयो नाम । तस्य च बहूनामन्यतमः सुतानामीश्वरविभूषणं शशीव ग्रहाणामनन्तमुखोदश्चितप्रघोषः पाञ्चजन्य इव शङ्खानां सुमनसामभीष्टः पारिजात इव तरूणामसीमवता गुणग्रामेण निरुद्धनिखिलमेदिनीविभागः सुवृत्ततया तिलको गोत्रस्य सुगृहीतनामा सूर इति सूनुर्बभूव । तस्मादमलमुक्तावदातकीतः पुरुषपुङ्गवादजायत प्रथमः पुत्रेषु पम्पावतीसूनुः सोडलो नाम । स खलु स्वर्लोकशोभाविलुण्टिनं लाटदेशमध्यासितो विद्याभ्याससमकालमुन्मेषमागते कविपथोपदर्शिनि सारस्वते ज्योतिषि निसर्गसुस्थितस्तेनैव कवितारसेन मानसमनुशीलयामास । कालपरिवर्त्तितावस्थितिक्रमेण च मृगमदपत्रभङ्गिमयं कोङ्कणभुवो मण्डनमिवोद्यानवनविनीलपरिसरं स्थानकं नाम राजधानीनगरमागत्यावस्थितः कोङ्कणमहीभुजो जाह्नवीयमुनयोरिव सरस्वतीश्रियोर्वेणीसङ्गमेन संवर्गितः छित्तराजेन संभूषितो नागार्जुनेन संमानितो मुम्मुणिनरेश्वरेणेति सोदरेण क्रमोपभुक्तराज्यसंपदा राजत्रयेण प्रतिपद्यमानः कवीन्द्रसदसि प्रतिष्ठामाससाद । अथ कदाचिदसावुदयगिरिशिखरयन्त्रोल्लालितविमुक्ते तिमिरकरिघटाघातिनि गण्डोपलगोल इवाम्बरमनुसरति भगवतस्तीव्रत्विषो मण्डले चण्डकरकिरणकुञ्चिकोद्धाट्यमानेष्विव विघटितदलकवाटसम्पुटषु ब्यक्तीभवत्सु तामरसकोशेषु दिवसलुण्टाकोल्लुण्टितश्रियः कुवलयवनादाक्रन्दमुखरासु प्रभास्विव समीपमम्बुजग्राममनुप्रधावतीषु गुञ्जतामिन्दिन्दिराणां श्रेणिषु प्रदोषपवनपटपल्लवापमाय॑माणेष्विव निर्मलीभूतेषु ककुभां मुखेषु वासरविधेयकर्मणि क्रमशः प्रवृत्तेषु जनपदेषु जाते च लोचनावकाशदायिनि प्रभातसमये सभामधिष्ठितं कीर्तिचन्द्रिकाविस्तारसितपक्षमनाकृष्टचापकन्दर्पमलङ्कारमाणिक्यं चौलुक्यवंशस्य कवीशमीश्वरं लाटदेशश्रियः कोङ्कणेन्द्रसुहृदमुर्वी पतिं वत्सराजमनु प्रणयपरिणतानन्तसङ्गतिसुखोपभोगार्थमाहूय नीतो जगाम। तत्र च प्रवर्त्तमानासु चतुरकविकदम्बकोदश्यमानानेकरसविपञ्चनपटीयसीषु

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180