Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
१४८
सोडलविरचिता त्तराप्तपरिचारिकाप्रभृतिपरिजनोपेतः कृते वधूवरस्य बहुविधाभरणनेपथ्यादि नरलोकदुर्लभं वसुजातमादाय राज्ञा शिखण्डतिलकेन प्रेषितो राजाङ्गनिर्विशेषः पिता तारावल्याः सेनाधिपो रत्नमौलिः ।
तेन चागत्य पुनर्नवीकृतो द्विगुणितश्च सोऽत्यन्तमुत्साहमेदुरो महीयसाऽऽडम्बरेण विभ्रमारम्भमुत्सवाभोगः। समर्पितश्च स खलु निखिलोऽप्युदयसुन्दरीसमीपत्वेन मातृगृहादागतःप्रति(परि ?)चारको लोकः । कथितश्च वाञ्छितवरलाभसुस्थिता समुपजाता पुत्रिकेति दम्भोलितः श्रुत्वा समं महादेव्या विजयरेखया प्रमोदमागतस्य राज्ञः शिखण्डतिलकस्य प्रेमपरिणतालापबन्धुरो बन्धुसंवन्धजन्मा सन्देशकः । तथैव चात्मनः सुता तारावली राज्ञा सादरमुपवर्ण्य कथितस्य विशेषतः पुनरुदयसुन्दर्या पुरस्कृतस्य सुरूपेण च मनसः प्रति. भासितस्याथ च नितांतमभिप्रेतस्य राजसुहृदः क्षत्रियकुमारस्य कुमारकेसरिणो दत्ता परिणेतुम् । अनन्तरमसौ रत्नमौलिनिवर्तितसकलसंयुक्तकोपचारप्रक्रियाकलापः स्वागतोपहारपरितोषितश्च सानुबन्धमुद्यसुन्दरीदुर्ललितसहनेन राजानम्, राजहृदयानुकूलवर्त्तनेन सुदृढमुदयसुन्दरीम् , उद्यासुन्दरीशरीरहिताचरणेन तारावलीम्, तारावलीपालनोपचरणेन कुमारकेसरिणम् , सौढि(हि ?) त्यकरणेन पुनश्च राजानं सजड्वाग्रहमभ्यर्च्यपृष्ट्वा च गमनाय कृतकृत्यश्चान न्दितेन चेतसा स्वं जगद्विरोचनकक्षाश्रयं जगाम ।
राजा च मलयवाहनस्तया वल्लभया सार्द्धमुदयसुन्दा तेन च प्रचुरदेशदानोपवर्द्धितैश्वर्यसुस्थितेन मथुरापतेर्जनकस्य कलिन्दकेतोः स्वसौख्यापादितप्रमोदेन तारावलीपरीतमूर्त्तिना सुहृत्तमेन कुमारकेसरिणा विनोद्यमानहृदयो नानापथविपश्चिताभिरनेकरसविशेषशालिनीभिभूरिशो विलासभङ्गिभिरनवरतमखिलान्येव मर्त्यलोकसुखानि भुञ्जन्नसारमपि सार( म )करोत् । अत्रान्तरे च समुपजाते हि कथाऽवसाने संवृत्य पुस्तकमुद्ग्री(वी)भूय स्थितवति तस्मिन्कवीश्वरे तो तिलकतालकाख्यौ द्विजपुङ्गवावेकहेलयैव परमुद्दतदिव्यतेजसावमरपुरसुन्दरीकरचलितचामरोपवीज्यमानाकृती विमानयानगतावन्तरिक्षे बभूवतुः । अवोचदेकश्च तयोः स एव तालको नाम । भोः सत्कवे ! सोडल ! श्रुतोऽयमस्माभिस्तावकः प्रबन्धोऽयम्, (अ)पूर्वमिमं श्रोतुमुपक्षिप्ता हि विषयास्ते यादृग्गुणोपरूढसृष्टयः कथ्यन्ते सूरिभिस्तादृशा एव तथायुपक्रमः कथाया यथावदाक्षेपको हृदयस्य, संबन्धसन्धिषु काचिदेव सुश्लिष्टता संविधानकस्य, प्रस्तुतोपक्रान्ते च वस्तुनि किमुच्यते स्पष्टैव संपद्रसस्य, पद

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180