Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 167
________________ १५६ सोडलविरचिता शापागतस्य श्राविता बाणभट्टस्य । तेन च निशम्य सम्यगभिनन्दितेति कविप्रियेण स्वामिना मुम्मुणिराजेन श्रुतं च यथा तथा शृणु । शूर्पारकनगरादागच्छता लाटेन्द्रकुलशेखरेण भूभृता वत्सराजेन कथंचिध्वनः सन्निवेशात्तस्मिनायतने प्रविश्योपविष्टेन दृष्टा झटित्येव भित्तौ प्रशस्तिः । तदोपलब्धोऽयमेवमालिखितो व्यतिकरः। तत्कौतुकाहितरसेन च ते(न)प्रथमं भवन्तमाहूय यथैष संवीक्षितः प्रबन्धो यथा च मत्पठितार्यावधारणनिबन्धना निबन्धसृष्टिरासीदिति ज्ञातं यथाऽयमाश्चर्यहेतुराकर्णितो बाणभट्टस्य वृत्तान्तः तत्सर्वमसमविस्मयरसाक्षिप्तहृदयेन निवेदितं राज्ञे । राजा च सुदूरमभिवर्द्धतानुरागवृत्तिरतिसत्वरमिदानीमेव भवन्तमीहते द्रष्टुमादिष्टश्च मित्रमिति त्वदानयनार्थमहमतो निर्विलम्बमुत्थीयतांगम्यतामित्येव भाषितस्तेन क्रियत एवमिति गृहीत्वा पुस्तकमगाद्राजकुलमवाप चास्थानमण्डपम् । प्रविष्टश्च तत्रान्तरग्रे सेवागतं सङ्क्रान्तनिजपतिप्रतापालोकडम्बरेणेव प्रेड्खता प्रघनमणिदलकलापदीप्राङ्गभूषणोद्योतपटलेन दुरालोकं सामन्तचक्रमास्थानलोकं च सकलमनुकूलितावनीन्द्रमानसमग्रे च तस्मादखिलविद्यावग्रहमहामतिमचिन्त्यसिद्धेश्व साधक कवीनामिन्द्रपदस्य रागिणं गुणेषु सहजसौजन्यवत्सलममलकाव्यरसतरंगाप्लवं प्रतानं कविपुङ्गवानामपश्यत् । तस्य चानेकगुणगभीराभोगमहनीयस्य मध्ये कविराजचक्रस्य विमलहेमसिंहासनोपविष्टमुपरिष्टाद्भास्वतः पर्यन्तलम्बिताविरलमणिगुच्छकावचूलवल्गुनो हरितचीनातपत्रस्य मूले विद्याधरमिव लीलया कल्पविटपिनस्तले निषण्णम् , क्षितिभृदुन्मूलनमहाबलं भुजद्वयमुदीक्षितुमिवायातमनिलमुन्मुञ्चता चामरेण सनाथकरतलाभिः पार्श्वयोश्वामरधारिनारीभिरुपवीज्यमानम् , क्षत्रियशौण्डीरमिन्द्रमिव व्यक्तद्विलोचनम्, उपेन्द्रमिव निहतान्तरभुजाव्यम् , हरमिव मुक्तव्रतम् , ब्रह्माणमिव क्षत्रियकुलेऽवतीर्णम् , अनङ्गमिव साङ्गम् , रविमिव भुजावस्थापितप्रतापम् ,इन्दुमिवालापवाचि विवृता. मृतम् , अखिलराजन्यचूडामणिं मुम्मुणिराजमद्राक्षीत् । यस्यातिविस्तृतानेकविषयवर्तिना गुणपथेन बभ्रमे सर्वतोऽपि पतिप्रलयभावनाविषण्णवैरितरुणीविसृष्टशिरःसिन्दूरधूलिभिरुडूलितपदो दास इति प्रसिद्धनामा स नाम वार्तिको जगति। तेन हि प्रथितगुणपरंपरोपरञ्जिताशेषविश्वलोकेन राज्ञा दूरानन्दहसितया दृशा विलोक्य संभाष्य च परिचयोपचारमधुरेण वचसा संमानितः स कविलब्धोचितासनश्च सर्वैर्यथाक्रममालिङ्गयाऽऽपृष्टकुशलः कविभिः । अत्रान्तरे

Loading...

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180