Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
१४६
सोडविरचिता
पुण्यवादित्र कैर्मुखरितदिगन्तरः प्रथममेवागत्य मिलितेन कुमारकेसरिणा पृच्छयमानवृत्तान्तः प्रत्यक्षभूतया चक्रवर्त्तिपदश्रियेव सार्द्धमुदयसुन्दर्या विभूतिमहितासनोपकरणसज्जितां विजयकरिणीमधिरूढः प्ररूढवृद्धिना विलासेन सप्रमोदमन्धरमभितोऽपि गृहे गृहे वाद्यमानवर्द्धापनकमुद्गीयमानधवलमानन्दनृत्य - त्सुवासिनीकमुपरचितदृशोभममुना च शोभा सत्कार परिकरेणोत्सवाद्गृहीतशृङ्गारमिव नगरं विवेश ।
ततश्च स्वर्गतोऽवतीर्णमिवानङ्गरतिमयं मिथुनमालोकयितुमुत्तालसृष्टिना कुतूहलेनाकृष्यमाणा विहाय सकलं विलासव्यापार मतिरभसाद्धावन्त्यो लगन्युस्त्वरितमुत्पथेनापि विलग्य त्रुटन्तमप्यगणयन्त्योहारादिमणि सरकलापमन्योन्यमाह्वयन्त्यश्च प्रसरेण निःसृताः स्वर्गादिव पतिताः पुञ्जिताः सौधशिखरेषु, पातालादिव निर्गताः संभृता गवाक्षगर्भेषु, अन्तरिक्षादिव विघटिता विस्तृता उत्सङ्गेषु, भूतलादिव समुत्थिताः प्रकीर्णाः प्राङ्गणेषु, संगता वेदिकासु, मिलिताश्च तोरणद्वारेषु कामिन्यः ।
प्रथममेव रभसान्निःसरन्त्यश्च ताः काश्चन जघनभारासहिष्णुतया पदे पदे प्रस्खलन्त्यः कुलव्रतेनेवानुपृष्ठप्रधावितेन हठादाकृष्यमाणाः प्रचेलुः, काश्चन त्वरयाकृष्यमाणमुरुगुरुभराक्रान्तमशक्तमिव क्वणन्मणिनूपुररणितच्छलेन चरणयुगलं क्रन्दयन्ति स्म, काश्चन प्रधावनवशोद्गताङ्गविक्षेपादितस्ततो दोलायमानमुक्ताकलापविसृतेन विशद किरणनिकुरुम्बकेण चामरेणेव हृदये तत्कालविश्रान्तं राजानमुपवीजयाञ्चक्रुः । निःसृत्य दर्शनस्थानमनुप्राप्ताश्च काश्चन गिरिसुतार्चनक्षणे गृहीतधूपदहनका एव धाविता उमाऽऽकृतिभ्रान्त्या झगित्युदयसुन्दरीमुद्दिश्य धूपमुपदर्शयन्ति, काश्चिदन्योन्योपमई कल हैरन्तरितदर्शनाः पश्चात्तापमुद्वहन्ति, अपराश्च काश्विदेकस्मिन्नेव नयनकुवलये कज्जलमेकस्मिन्नेव कपोलतले पत्रभङ्गमेकस्मिन्नेव श्रवणशिरस्यवतंसकैरवमेकस्मिन्नेव कर्णे कनकपत्रमेकस्मिन्नेव करे कङ्कणमेकस्मिन्नेव चरणे निधाय नूपुरमुत्सुकेन मनसा विनिःसृताः पुष्पेषुनटनाटकनिविष्टा इव यथावदर्द्धनारीश्वरं रूपमादधिरे । एकाभिरप्यानन्द बाष्पाम्बुभिइछटकं, स्मितवशविकासिदशनांशुभिः स्वस्तिकान, प्रकम्पविगलितावतंसकुसुमैः पुष्पप्रकरम्, अनुपथं प्रयच्छन्तीभिः, अन्याभिरतिवेगविस्मृतोत्तरीयवस्त्रतया करतलावृतपयोधराभिर्मुखनिहितपङ्कजान्पूर्णकलशानिव पुरः प्रगुणयन्तीभिः प्रविशतो मिथुनस्येव विरचितो माङ्गलिकसत्कारः । काभिश्च सुरतमपि राज्ञे दापयितुमात्मानमर्थयन्तीभिः श्वश्रू

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180