Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 100
________________ उदयसुन्दरीकथा | ८९ ततश्चैवमवन्ध्यमकरध्वजकरायुधाघातबाधया विधुरीकृतो निरस्य नाय - कोचितं धैर्यमवधीर्य व्रीडामनुगन्तुमेनां प्रवृत्तवानस्मि । बाला तपस्विनी चासौ झटित्येव ततो नगरगर्भादुत्पत्य निरालम्बमम्बरपथेन निर्ययौ । मयाऽप्यये नियतमनयोत्पातविद्यया दिव्ययुवतिः काऽप्यसाविति विनिश्चित्य तयैवोत्पतनप्रक्रिया पृष्ठलग्नेनाऽऽरब्धा गृहीतुम् । एकत्र कुत्रचिच्चन्दनवनवलयपरिमलोपगूढगिरिनिर्झरतुषारनिकराश्चितैर्वायुभिरनङ्गदहनोद्दीपनपटीयसि प्रदेशे मया मायामयं द्विजस्य रूपमाधाय वचश्छलेन छलितयाऽपि तयैव छलोक्त्या छलितोऽहमनया । निराकृत्य मां पुनरुत्पपात व्योमनि । रे प्रतार्य मां गता हताशेयमिति तत्कालमुत्थितमहात्विषा कोपानलेन झगिति पिङ्गलीभूतलोचनोऽहमाविर्विधाय तदेतदात्मनो नैशाचरं रूपमनुपृष्ठधावितः पलायमानामिमां विधृत्य सम्प्रतीह रावणो बलादनिच्छन्तीं सीतामिव प्रवृत्तो व्यापादयितुम् । अत्रान्तरे च जगदेकरक्षिता क्षत्रियवरिष्ठो झटित्येवाधिष्ठितः पुण्यैरमुष्या भवान् । भवता तु सह सङ्गरे न नाम शवपिशितपेशिकोत्कर्त्तन कर्मैकशक्तिः कर्त्तिकेयमर्हत्यायुधीभवितुम् । अतः स्मृतिमात्रोपस्थितिपटीयानेव संस्मृतो दिव्यासिः । असिरप्यसौ पूर्वमेव मे कथितवान् स्वभे यथा किल वैकुण्ठावंतारे पुंसि व्यापारितोऽहमशस्त्रतया भवतो भविष्यामीति । अजानता च मया तदंशावतीर्णे त्वयि प्रयुक्तोऽनुकृतवानेषोऽपि यथोचितं पूज्येषु । तेन हि तवायत्तशक्तिस्तवैवायमर्पितः कृपाणः । व्रतिन्यामस्यां तु योषित्यनौचित्येन विषयस्य, त्रासेन वा दण्डधरस्य (भग) वतः, प्रबोधेन वा महतो विवेकस्य, वश्यतया महाशयस्य मनसो झटित्येकपद एवासौ विभ्रश्य गतवान् स तादृग्गरीयानप्यनुरागः । तद्भो वीररससिद्धिप्रमु (दित) दिगीशरसनाग्रफलकोत्कीर्णपरमपौरुषप्रशस्ते पार्थिवैकतिलक श्रीमन्नेष ते कथितो वृत्तान्तः । प्रहिणु यास्यामि सत्वरमिदानीमिति । अनुज्ञातो नृपेण स खलु शौण्डीरजन्मा निशाचरो झगित्येव सूरविद्रावितोऽन्धकार इव तिरोबभूव । सा च तापसी निलीनकौणपभयातिक्रान्तकम्पा व्यपगताशेषप्रस्वेदसंप्लुतिरुत्पन्नसुस्था सुस्थीभूतहृदयवृत्तिरनाकुलेन चक्षुषा सर्वाङ्गमुदीक्ष्य मेदि - नीनाथं मुहूर्त्तमन्तर्मनस्येव निस्सृष्टार्थं विचिन्त्य किञ्चिदवाञ्चितया दृशा निक्षितैः क्षालयन्तीव मृत्युमुखविनिर्गतं हृदयमविरलैरश्रुबिन्दुभिरभिभूयमानशब्द रोदितुमारब्धवती । राजाऽपि तामवनतमुखीमवेक्ष्य तथा रुदतीमुद्भूतकरुणाञ्चितेन चेतसा चिन्तितवान् | हा हा कोऽयमस्याः क्रूरग्रहेण कौणपेन मुक्ताया वर्षा

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180