Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 137
________________ १२६ सोडलविरचिता राजाऽपि तेन तादृशा तस्योत्रासवचनेन विस्मितश्चान्तः सत्वरमाहत्य जड्डाभ्यां तुरगीमनुपृष्ठधावितैः कुमारकेसरिप्रभृतिभिरनुस्रियमाणमार्गः क्षणात्तमुद्देशमासाद्य पुरो निहितदृष्टिरेकहेलयैव परमितस्ततो लतामण्डपाल्लतामण्डपमुरिहादुर्वीरुहमनुसरन्तम् , अ(न्वा ) रब्धमशेषतोऽपि वनरक्षिभिः, अक्षामविक्रम, हास्यरसमिव पार्थिवविकारेण परिणतम् , दुर्नयमिव प्रतिमया प्रतिष्ठितम् , वैरूप्यमिवानन्यरूपतया नियमितम् , चापलमिवैकवसतितया व्यवस्थितम्, कडारकान्तिभिस्तनुरुहैर्लग्नकपिकच्छुकेसरैरिवोपजातकण्डूतितया सततमङ्गेषु कण्डूयनस्वभावमुपशीलयन्तम्, चापलदुरुद्यमान्दोलितचन्दनमहीरहतया चलितशिखरशाखाग्रविघटितेन क्रोधात्पश्चाद्भागलग्नेन गोधूमरोचिषा भुजङ्गमेनेव पिङ्गत्विषा लाङ्गलदण्डेन भ्राजमानम्, फालवशमिलितबिम्बीफलपाटलरसेन लिप्तया वदनसम्पदा दशनदलितकुम्भकर्णनासासृजा प्लावितमुखं सुग्रीवमिव दृश्यमानम्, पाकारुणगभस्तिनि नारङ्गफले प्रसारितकरं शिशुभावचापलाद्वालरविबिम्बमाकर्षन्तं हनूमन्तमिव प्रतीयमानम्, इतस्ततो दृष्टनष्टतया रणरसोचचापलं नीलमिवोपलक्ष्यमाणम् , प्रेङ्खता जात्यकनकदलोद्योतदीप्रेण प्रभापिण्डेन जलदपण्डात्तडिङ्गोलमिव श्यामलतमालशिखराचम्पामधः क्षिपन्तम्, तारकवतश्च गगनादुल्कापुञ्जमिवोढुद्धमाधवीमण्डपात्फालेन निःसरन्तम् , कचित्कपिशेन वपुषा परिणामपिङ्गलं फलमिव पनसतरुस्कन्धेषु लम्बमानम् , कचिद्यावकरुचा वदनबिम्बकेन फलर्द्धिमेकोत्तरां दाडिमीविटपेषु दर्श यन्तम्, कचिकपिलोत्फुल्लरोमशया लाङ्गलश्रियाकपिशकेसरविकस्वरां मञ्जरीमिव लतामण्डपेषु सूत्रयन्तम् , हरजटाग्रपिङ्गलया प्रज्वलन्तमिव देहत्विषा, प्रचलदखिलाङ्गभागेन उत्पतन्तमिव चापलेन, फलग्रहोदश्चितकरेण विस्तरन्तमिव दुर्नयेन, रक्षिजनकर्थनोपकल्पितेन हसन्तमिव दन्तनिष्कर्षणेन, विदूषकमटवीचरपात्रेषु, विटंकान्तारनगरेषु, भोक्तारमारामग्रामफलानाम्, प्रसादचिन्तकमनोकहश्रियाम्, बिभीषिकाप्रभेदमिव वनदेवतानाम्, हास्यपात्रमिव महीभृताम् , उच्चासनप्रियमिव तरुशिखरोपवेशिनम्, नियमवन्तमिव फलाहारिणम् , महाकायमद्भुताकारभासुरमतिजवं प्लवङ्गमद्राक्षीत् । दृष्ट्वा च साश्चर्यम् अहो महत्वमङ्गानाम्, अहो भासुरत्वमाकृतेः अहो चतुरता चैतन्यवृत्तेः, अहो शक्तिरगम्यफलादानस्य । यथास्य तिर्यग्जाता. वप्येष मानुषसधर्मा व्यापारः, यथा प्लवगजन्मनोऽपीदृशमभीरुत्वम् , यथा

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180