Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 147
________________ १३६ सोडलविरचिता चित्रपटः । ततः स्वामिनि ! अहं तेन चित्रपटालोकनेन द्विगुणितभवद्विरहदुःखा त्वद्नुरागविधुरितं राजानमक्षमा समीक्षितुमिति तामतिक्रम्य कृच्छ्रेण रात्रिमुषस्येव त्वदन्वेषणाय भ्रमणमङ्गीकृत्य कुसुमवाटिकायां पुष्पोचयमिषेण निर्गता नगरात् । अनन्तरं च तावद्वहुग्रामाग्रहारपुरपत्तनालिं प(श्य)न्ती त्वरितमन्तरालपथेन यामि यावदेकत्र मध्याहतरणितीव्रातपेन विह्वला भ्रमभरालसया दृशा पुरःपुरोऽन्धकारपटलानि पश्यन्ती विश्रमितुमुद्भूतहृदया सहसैव च विदार्य गगनमुच्छ्रितेन स्खलिता क्ष्माभृतः शिखरेण स्थिता च विश्रान्तिकृते मुहूर्तकं तत्र । तत्र च तृषा विशुष्कतालुरपेक्षया पाथसामितस्ततो दत्त दृष्टिईरादेकतः प्रतिशिखरकोणैकदेशे रहा प्रदेशवर्ति, पिहितं च घनलतागुल्मजालिभिः, अनन्यसदृशाम्बुनिर्मलतया गरुडचञ्चुग्रहाद्विच्युतममृतं कुम्भाद्रुतमिव विलुठितम् , ताण्डवरसविधूतित्रुटितं हरजटाग्रगङ्गाम्भसः पटलमिव निपतितम् , ब्रह्मणः कराद्धृष्टं कमण्डलुपात्रमिवोन्मथितम् , कल्पान्तपवनपा. तितं चन्द्रबिम्बमिव स्फुटितम्, द्रुतिविद्योपसाधितं ताराकदम्बमिव द्रावितम् , आपालिपूर्णमस्थूलविरलोर्मिजातनुत्तानतुण्डं तोयकुण्डमद्राक्षम् ॥ ___ दृष्ट्वा च सहर्षमहो निर्माम (निस्सीम?) सृष्टिरमलभावोऽम्भतामित्यभिलाषतरलेन चेतसा त्वरितमनुसृत्य रभसात्तदीयं करप्राप्यमचिरमुक्ता. मरीचिसश्चयस्वच्छमतिशीतलं सलिलमापूर्णकण्ठमिच्छयाऽस्मि पीतवती । तदम्बुपानाच झगिति गात्रमेतदपहायामुना तुरगीरूपेण परमहमभूवम् । क्षणं च तदुपकण्ठस्थिताऽहमात्मानमनुस्मरन्ती वितर्कमकार्षम्-अये तदेतद्देहपरावर्ति सलिलं यत्पुरा सिद्धेभ्यः कथाभिराकर्णितमासीत्, हा किमिति पिपासितया दृष्टमिदमभाग्यवत्या मया, दृष्टं चेकिमिति परामृश्य नोज्झितम्, उज्झितं न चेत्किमिति त्वरितमापीतम्, पीतं चेत्किमित्यङ्गुलीनिक्षेपेण नोद्वान्तम्, अहो विचित्रव्यसनकारित्वमनन्तशक्तेर्देवस्य, येनाहमिदं प्रापिता दशान्तरमित्यादि चिन्तयन्ती मूले महीतलगतं विलोक्य सरसदूर्वाप्रवालशादलं तृणस्तम्बमनल्पया विमोहिता क्षुधा तमधि झम्पामक्षिपम् । क्षिप्तझम्पा च गता भूम्यन्तरं प्राक्चैतन्येन मुक्ताऽस्मि । ततस्तु कुत्राहमवस्थिता क गता क परिभ्रान्ता केनात्र समानीता कथं पुनरागता निजप्रकृतिमिति न ज्ञातवती । केवलमिदं तु दैवानुकूल्यमभूद्य देवि संवृत्तः सह भवत्यास्सङ्गम इति सहर्षमुक्त्वा व्यरंसीत् ॥ उद्यसुन्दरी च हा हा सुहृदुःखिते प्रियसखि तारावलि स त्वयाऽस्म

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180