Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरीकथा ।
१४३ ड्रेन मिलितेयमसंभाव्यसंगमा प्राणेश्वरी । नवेष्टजनवियोगदुःखादपरमनुभूतवती क्लेशम् । इदानीमरण्यमिदमेवं निरुद्धदिङ्मुखालोकमस्त्येकडम्बरं च सर्वतः। कः प्रदेशोऽयमवनेरिति सर्वथैवाप्रतीतम् प्रतिष्ठानं हि कुत्र किल ककुभो वि. भागे कियति वा दूरे वर्तत इति न नाम ज्ञायते । ( सुकृत) सन्निवेशादिहो पस्थितैव परं तारावली । नत्वसौ नभःप्रचारपटुतराऽपि पुरन्ध्रिसौख्यादुन्मो- . ह( मवधार )यितुमीश्वरादिशः। नवा जन्तुसंचारागोचरेऽस्मिन्काननेऽन्योऽपि मनुष्यजन्मा कश्चिदासाद्यते यमापृच्छ्य वाञ्छितां दिशमनुसरामः । तदेवमितो गमनाय न तादृगुपायोऽस्ति कश्चन । विस्मृतश्चामुतो विद्याधरादस्यैव कथाकर्णनरसान्यहृदयेन मयाऽत्र प्रष्टुमुपदेशः । खेचरा हि बाहुल्येन सदाऽपि भ्रमन्तो वियति विदन्त्येव भूलोकविषयिणः प्रदेशान् । अथवा स्थदि नाम) पुनरसावद्या. प्यवान्तरोत्पद्यमानव्यासङ्गविलग्नो वियत्येव तिष्ठत्यतः पश्यामि तावदिति विचिन्त्य महीयसो मोहान्मिथ्याशया गगनमनुप्रेषितेन चक्षुषा सहसैव तस्मिन्नन्योन्यसङ्गतमेकप्रमाणमेकक्रियमेकरूपं च स्वरूपमेदुरमुदारपक्षं पक्षियुगलमालोकयाञ्चके । तच झगित्येव तं पक्षिभावमपहाय सुवयुषा पुरुषरूपेण भूत्वा नभसस्तलाद्भुवमवातरत् । दृष्ट्वा च दूरतोऽपि प्रियया परीतं राजानमागत्य रभसा द्वयमपि प्रणाममकरोत् । कौ भवन्ताविति पृष्टे महीभुजा कृताञ्जलिरेकस्तयोः सविनयमुवाच । देव ! तदा देवेन विश्वोदरान्तरितं कामिनीरत्नमन्वेषयितुमनुप्रेषितस्सोऽहं तवादेशधरः क्षपाचरो मायाबलः । अयं च पातालक्षत्रियस्य शिखण्डतिलकस्याप्तः पदातिरस्या एव गवेषणाय भारतवर्षे निरूपितो दम्भोलिनामा भुजङ्गवीरः । जातश्च मूलतः पातालमखिलं त्रिदशभुवनमित्युदीक्ष्य लोकद्वयमिदानी ( भू) लोकमधिप्रचरतो ( मम ) सार्द्धमनेन सौराष्ट्रदेशे प्रभासनामनि क्षेत्रे मेलापकः । तत्र चानवरतयात्रायातत्रिभुवन(ज)नोपमईदुईर्शदर्शनसमकालकल्पितफलार्पणप्रवणमीश्वरं श्रीसोमनाथदेवमिष्टार्थसिद्धये विज्ञापयितुंच प्रविष्टयोः प्रस्तुतामर्थयमानयोः कार्यसिद्धिमन्योन्यमर्थनालापमेकमेव श्रुत्वा सादरमन्योन्यं च कृतप्रश्नाद्वगतैकप्रयोजनारंभयोः सख्यमिदमावयोबभूव । ततः प्रभृति सहैव स्वैरप्रचारपेशलं पक्षिरूपमाधाय विचरतोरत्रेदमनिन्द्यजलशकुन्तकूजितारावसूचितमुचितानेकपङ्कजमनोहरं सरो दृष्टिगोचरमभूत् । जाता च द्वयोरनवलभ्बनाम्बरविलंधनश्रमेणार्त्तयोर्मुहूर्तमतिशिशिरपरिकरेऽत्र महासरस्यखिलसुखानुभोगवैदग्ध्यवता मनुष्यरूपेण विश्रमितुं सममेव मानसी वृत्तिः । अतस्तथैवावतीर्णाविह । दृष्टश्च दिष्ट्याऽत्र

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180