Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
१४२
सोडलविरचिता मे झगित्यस्यैव भूभृतः शिरस्येकस्य गगनगङ्गातटे तपस्यतो महर्षेरुपरिष्टात्साङ्गप्रघर्षमिदमहो मेदिनीनाथ ! विमानमगमत् । कुपितेन च तेनावलोक्य क्रूरया दृशा रे रे चपल चापलस्य फलमदूरविषयमनुभावयामि भवन्तम्, इदानीमेव निर्विलम्बमनुभव,भवामुना मूर्खत्वादुष्कृतेन चपलः प्लवङ्गमो वनपशुरित्येवमुक्त्वा यावदनेविमानं वीक्षते तावदन्तरितां क्षामोदरीमपश्यत् । तत श्वासौ सर्ववित्किंचन ध्यानावहितीभूय ससंभ्रममाः पाप ! पुनरपरं स्त्रीरत्नमपहृत्य रे गन्ताऽसि तदिमामेवास्य भूभृतो रविशृङ्गस्य मेखलायां कुवलयामोदंनाम यत्सरः तस्योपकण्ठवनसुस्थितेन त्वया पालयता स्थातव्यमस्याश्च कृते मद्वचःप्रभावाद्भविष्यत्यधुनैव गिरेर्भित्तिगर्भमधिकृत्य वासाय पेशलं माणिक्यभवनमित्युदीर्य झगिति हृदयचिन्तितमुपस्थितं पुरो दिव्यमिदमादाय च महारत्नमन्यचैव किरणकोश नामा समुद्रान्तः सुधाहृदस्योदरे विनिपन्नो मणिः सकलविषविकारमूच्छोङ्गपरिवर्तनाद्यपायहरोऽस्याः सर्वापदामास्पदेऽत्र विपिने वसन्त्या भविष्यतीत्येवमनुकम्पया चूडामणिपदे निरूप्य तूष्णीमकरोत् । अहमपि तया दुर्वारशक्त्या शापोक्त्या दुर्द्धरवानलज्वालाहतो वनवृक्ष इव झटित्येव श्यामलीभूतः । सानुतापमये तदेतत्परयुवतिरत्नापहारपापस्य फलमुपस्थितं ममेस्थमिति संप्रधार्य च दूरमवनमितमौलिः प्रणम्य सविनयमवोचम् । भगवन् ! अज्ञानतिमिरान्तरितदृष्टेरधर्मनिर्मूलितविवेकस्य मे पुनरात्मलाभेन प्रसीदतु भगवान् दयाराशिरास्पदं च क्षमाया इत्येवमभ्यर्थिते मया स मुनिराीभूतेन मनसा भवत्वेवमहो यदा खल्विहैव तिष्ठन्त्याः प्रतिष्ठानपुरनरेश्वरो मलयवाहनः पाणिग्रहणमस्याः करिष्यति तदा तत्करप्रहारताडितस्य ते शापान्त इत्युक्त्वा विरराम । अनन्तरमहं तथैव तथा तस्य मुनेराज्ञया झगित्येवमत्र संभूतवान् । स्थितश्च यथा तथा स वेत्स्यति येन दृष्टोऽस्मि । जानामि पुनरेतदेवाद्य यत्किलावनीन्द्रशेखर ! तवानुभावात्स एष मे समुपजातः कर्मक्षयः, त्वं पुनरमुतो मुनीन्द्रस्य वचनादागतः, क्षितिघरोप्येष रविशृङ्गनामा, सरश्च कुवलयामोदसंज्ञमित्यपि तस्यैवालापप्रसंगेन कथितम्, माणिक्यभवनं च तदाज्ञासिद्धमिति कथितमेवास्ते, तद्भो ! भुवनोपकारिन् ! सुकृति (नांव)रैष भवताऽनुपृष्टः कथितो वृत्तान्तः, प्रसीद याम्यहमिदानीमित्येवमुक्त्वा सप्रश्रयमनुज्ञातो नृपेण झगित्येवोत्पत्य दुरालोकमम्वरमगोचरश्चक्षुषो बभूव ।
अथैवमखिलं वृत्तान्तमावेद्य गते तस्मिन् प्लवङ्गभावापनोदलब्धात्मनि विद्याधरे विलोक्य दिशो वसुमतीप्रभुरभीष्ठयुवतिसङ्गमाभिनन्दनपुरस्सरं चिन्तितवान् । नन्वनुकूलविलसितस्य विधेः प्रभावात्प्लवङ्गानुपृष्ठपरिसपेणप्रस.

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180