Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 138
________________ उदयसुन्दरीकथा । १२७ रक्षकचमूविमर्दकमिदं च सामर्थ्यम्, तथा तर्कयामि केनाप्यन्तस्तिरोहिताकारेण वस्त्वन्तरेणामुना भवितव्यम् । ये हि रामायणे सुग्रीवनलनीलाङ्गदप्रभृतयो दिव्यांशवन्तः श्रूयन्ते, ते किमन्यादृशाः केचिदभविष्यन् । अथवा मध्यवर्ती तेषामेकोऽद्यापि हनूमानास्ते । स यद्यसावमीभिरनन्यशक्तिभिश्चेष्टितैर्भवति तद्भवति । भवतु, सामर्थ्यमेव ज्ञापयिष्यति यः कश्चिदयमिति । दृश्यतां तावदिति चिन्तयन्नभिमुखमुपागतेन तदुपसाधनानुबन्धभावनानुविष्टेन विज्ञप्तो वसन्तशीलेन देव ! कुतोप्ययमेवमागत्यागत्य प्रतिदिनं वनरक्षिपुरःसरानस्मान्न किश्चिदिव मन्यमानो नवपाकमधुराणि नाभिवाच्छितफलानि सर्वतो विलुट्य स्वयमनास्वादयन्नये ! कुत्रचिद्याति किलाद्य निगृह्यते श्वो निगृह्यत इति न गतो गृहीतुमस्माभिः । अद्य पुनः प्रसङ्गसमागतस्य देवस्यापि ज्ञापितमित्यादिवचनादद्धिकवर्धिताद्भुतरसो राजा तं स्वयमुपक्रान्तवान् । अथ सोऽपि बालरविरक्तवदनः सम्पदमाच्छिद्यनिर्गतोविपिनात् । । दुर्वासर इव भूभृत्युपस्थिते शुभदशाप्रतिमे ॥ ततश्च उत्क्षेपणन्यसनशौण्डपदक्रमेण __ पूर्वाङ्गमुन्नतमनुन्नतिमच्च कुर्वन् । पश्चान्मुहुर्वलितकण्ठमकुण्ठवेग __ मत्रात्र दृष्ट इति निस्सरति प्लवङ्गः॥ राजा तु तेनोद्यानविप्लवक्रोधेन कनु पुनरसौ किमर्थं च स्वयमनुच्छिष्टानिफलान्यादाय यातीति महता कौतुकेन च प्रेरितो झगिति दत्वा कशं तुरङ्गयाः साग्रहं पृष्ठतो धाव । क्षणाच स तथाऽतिसत्वरं विनिस्सरन् कपिरित इतोऽयं प्राप्यत इति सप्रत्याशमनुसरन्तमनुमार्गलग्नैश्च कुमारकेसरिप्रभृतिभिः स्तोकान्तरमनुसृत्य चरणगतिवेगभगतया स्थितैस्समुज्झितमेकाकिनं नरेन्द्रमतिदूरमाचकर्ष । तथा सुदूरमाकृष्टो वजनाजा तमतिवेगलाघवानुकृतमारुताङ्गजं प्लवङ्गमनुसरन्त्या मुखावगलन्तीभिरतनुफेनवल्लरीभिरतनुवेगोज्झितस्य पश्चादागच्छतो मरुतः पन्थानमिव(चि)हयन्त्याः , परस्परमुभयोः स्पर्धयेवाग्रमग्रमनुसरतोरग्रचरणयोईयेन समागतां ककुभमधि प्रधावन्त्याः , रयातिरेकमाकलय्य

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180