Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 97
________________ .. सोडलविरचिता कुलीचकार, भीमश्च प्रविष्टो नागलोके विघट्य विषवृष्टिभीषणफणाफलकदुर्लड्यमुरगशौण्डीरदुर्ग नापिबत्पीयूषकुण्डानि । तदितो निर्गत्य मा पुनः स्वर्णास्पदमिति नेदीयसीं लङ्कामाक्रामत्यतः पश्मामि कियदनुष्ठानः किमाचरत्येष इति यावदवहितो भूत्वा तस्यैव पृष्ठमनुसरामि तावत्तथैव संवृत्तम् । एकहेलयैव परमसावेकस्मिन्नहनि दक्षिणं दिग्भागमङ्गीकृत्य निर्गतो नगरादुपान्तवर्तिनि ग्रामके च रात्रिमतिवाहयितुमेकस्य वृद्धकितवस्य वेश्मनि प्राविशत् । तेन च प्रणयाद्गन्तव्यं प्रदेशमापृष्टः स खलु सम्भाव्य नामग्रहगौ. रवेणाब्रवीत् । भोः पिप्पलक ! गन्ताऽहमितो दक्षिणेन सिन्धोः परकूलवर्तिनममानुषप्रचारं स्थानम् । अथेदमाकर्ण्य झगिति भीतवानहम्-अये ! स एष मे स्पष्टतामुपेतो विकल्पः । सत्यमेव लङ्कापुरनिग्रही वीरोऽयम् । यथा रक्षसां पदमपहाय लङ्कामितो दक्षिणे सिन्धोः परपारवर्ती का किलामानुषप्रचारोऽस्त्यपरः प्रदेशो यत्रैष यास्यतीति निश्चित्य तेनैव सार्द्धमहमप्यलक्ष्यवृत्तिना रूपेणानुगन्तुमारब्धवान्। तथाऽसौ प्रबलवेगानुषङ्गिणा गतिक्रमेणाक्रम्य भुवं भूय. सी प्राविशदक्षिणं देशम् । आसाद्य च मलयमण्डलमखण्डपटुभिः प्रयाणकैरायाति तस्मिन्नुभृतनिश्चयोऽहमहो सुदूरमेतावतीमवनिमुल्लड्डय प्रवृत्तश्चेद्गन्तुं तदेष साधयिता लङ्कापुरस्येति चेतसि विचिन्त्य त्वरितमेव पुरः प्रधाव्य समागतवान् । आख्यातश्च व्यतिकरोऽयम्, इदानी देवः प्रमाणम् , स 'पुनरागतो बलीयान् पुरुषप्रवीर इत्युक्त्वा विरराम । ततश्च राजन्नेतदाख्याय स्थितवति कङ्कालके सहसैव परमक्षिपद्रक्षसामीश्वरः शङ्कितान्तःकरणतरलितं मदानने चक्षुः । अथाहमाशङ्कितं स्वामिनो हृदयमाकलय्य प्रणयादकृत्रिमेण वचसा विज्ञप्तवान्-देव किमिति शङ्कया मनो व्याकुलयसि । यद्यपि दुर्वारभुजपौरुषप्रसरो वीरलोकः स्वर्लोकमकिश्चिदिवाक्रामति, मेरुं कसेरुमिवोत्खनति, पातालमालयक्रोडमिवाविशति, तथाऽपि न मे मायाप्रभावस्य प्रतिभटोऽस्ति त्रिभुवनेऽपि । योऽहं नाथ दिने निशां निशि दिनं चन्द्रेऽर्कमर्केऽपि च प्रालेयद्युतिमन्धकारपटले तेजस्तमस्तेजसि। किश्चान्धौ स्थलमम्बुधिं स्थलपथेऽप्येवं करोमि क्षणाद स्तुव्यत्ययविभ्रमेण झगिति त्रैलोक्यमन्यादृशम् ॥ तद्देव प्रसीद मे प्रेषणादेशेन येन कङ्कालकसहायोऽहमन्तराल एव त

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180