________________
.. सोडलविरचिता कुलीचकार, भीमश्च प्रविष्टो नागलोके विघट्य विषवृष्टिभीषणफणाफलकदुर्लड्यमुरगशौण्डीरदुर्ग नापिबत्पीयूषकुण्डानि । तदितो निर्गत्य मा पुनः स्वर्णास्पदमिति नेदीयसीं लङ्कामाक्रामत्यतः पश्मामि कियदनुष्ठानः किमाचरत्येष इति यावदवहितो भूत्वा तस्यैव पृष्ठमनुसरामि तावत्तथैव संवृत्तम् । एकहेलयैव परमसावेकस्मिन्नहनि दक्षिणं दिग्भागमङ्गीकृत्य निर्गतो नगरादुपान्तवर्तिनि ग्रामके च रात्रिमतिवाहयितुमेकस्य वृद्धकितवस्य वेश्मनि प्राविशत् । तेन च प्रणयाद्गन्तव्यं प्रदेशमापृष्टः स खलु सम्भाव्य नामग्रहगौ. रवेणाब्रवीत् । भोः पिप्पलक ! गन्ताऽहमितो दक्षिणेन सिन्धोः परकूलवर्तिनममानुषप्रचारं स्थानम् । अथेदमाकर्ण्य झगिति भीतवानहम्-अये ! स एष मे स्पष्टतामुपेतो विकल्पः । सत्यमेव लङ्कापुरनिग्रही वीरोऽयम् । यथा रक्षसां पदमपहाय लङ्कामितो दक्षिणे सिन्धोः परपारवर्ती का किलामानुषप्रचारोऽस्त्यपरः प्रदेशो यत्रैष यास्यतीति निश्चित्य तेनैव सार्द्धमहमप्यलक्ष्यवृत्तिना रूपेणानुगन्तुमारब्धवान्। तथाऽसौ प्रबलवेगानुषङ्गिणा गतिक्रमेणाक्रम्य भुवं भूय. सी प्राविशदक्षिणं देशम् । आसाद्य च मलयमण्डलमखण्डपटुभिः प्रयाणकैरायाति तस्मिन्नुभृतनिश्चयोऽहमहो सुदूरमेतावतीमवनिमुल्लड्डय प्रवृत्तश्चेद्गन्तुं तदेष साधयिता लङ्कापुरस्येति चेतसि विचिन्त्य त्वरितमेव पुरः प्रधाव्य समागतवान् । आख्यातश्च व्यतिकरोऽयम्, इदानी देवः प्रमाणम् , स 'पुनरागतो बलीयान् पुरुषप्रवीर इत्युक्त्वा विरराम ।
ततश्च राजन्नेतदाख्याय स्थितवति कङ्कालके सहसैव परमक्षिपद्रक्षसामीश्वरः शङ्कितान्तःकरणतरलितं मदानने चक्षुः । अथाहमाशङ्कितं स्वामिनो हृदयमाकलय्य प्रणयादकृत्रिमेण वचसा विज्ञप्तवान्-देव किमिति शङ्कया मनो व्याकुलयसि । यद्यपि दुर्वारभुजपौरुषप्रसरो वीरलोकः स्वर्लोकमकिश्चिदिवाक्रामति, मेरुं कसेरुमिवोत्खनति, पातालमालयक्रोडमिवाविशति, तथाऽपि न मे मायाप्रभावस्य प्रतिभटोऽस्ति त्रिभुवनेऽपि ।
योऽहं नाथ दिने निशां निशि दिनं चन्द्रेऽर्कमर्केऽपि च
प्रालेयद्युतिमन्धकारपटले तेजस्तमस्तेजसि। किश्चान्धौ स्थलमम्बुधिं स्थलपथेऽप्येवं करोमि क्षणाद
स्तुव्यत्ययविभ्रमेण झगिति त्रैलोक्यमन्यादृशम् ॥ तद्देव प्रसीद मे प्रेषणादेशेन येन कङ्कालकसहायोऽहमन्तराल एव त