________________
उदयसुन्दरी कथा।
८७
मागच्छन्तमपहस्तयामीति विज्ञप्ते मया, स्वामी विभीषणो यथाऽभिप्रेतमनुतिष्ठतु भवानित्यादिदेश ।
अथ सनाथः कङ्कालकेन तस्मिन्नेव क्षणे तस्याहमागच्छतो मानवस्य सन्मुखमुच्चलितवान् । अवाप्य च कियत्याऽपि च कालकलया मलयमण्डलमे. कत्र महतो जीर्णवनगह्वरस्य गर्भे गलितघनतुलादण्डं चण्डिकाप्रासादमपश्यम्। आलोक्य तं नन्विह पुनरनाश्रयं काननमवेत्य कदाचिदसौ वीराध्वगो वसतये प्रविशतीति तमेवाश्रितवानस्मि । तत्र च देवीपदोपसेविना वेतालवर्गेणागत्य विधीयमानालिङ्गनकुशलप्रश्नादिसत्कारस्य तिष्ठतो मे झटिति परमसौ प्रहरमात्रायां रात्रौ "समागतो वीरः स एष इति" चाङ्गणकवत्यैव दर्शितः कङ्कालकेन दृष्टे च तस्मिन्नुदारमूर्तावुत्पन्नचमत्कारोऽहमहो स्तोकमिवायमा ख्यातो राक्षसचरेण । स्वरूपेण पुनरीदृशा कियन्मात्रममी भीमादयो भटाः, स्वोकसुभटेभ्योऽप्यवश्यमतिशेते। तदस्तु तावदपरामस्यैव चेष्टामदृष्टचरितस्य कौतुकेन सवेतालपरिजनस्तिरोभूय निभालयामि मुहूर्तमपीति सम्प्रधार्य तथा स्थितवान् । अनन्तरमसावपि प्रविश्यान्तनमस्कृत्य च देवीमागत्य बहिरेव मण्डपान्तरूपाविशत् । तथोपविष्टस्य च तस्याम्बरपथेन परमाजगाम विदितपूर्वश्चास्माकं कपालभैरवो नाम विद्याधरजन्मा कापालिकः । तेन हि प्रणयादापृच्छयमानः प्रवीरोऽसौ " मथुरापुरनिवासी राज्ञः कलिन्दकेतोः सूनु तव्यसनानुसारिणा द्रव्येण दु:स्थितः प्रभूतं काञ्चनमनन्तं च विभीषणस्य कोशजातमाहत्तुं हिरण्यपरिकरांलङ्कापुरी प्रसाधयितुमुच्चलितो नाम्ना कुमारकेसरी" त्यादि यथावस्थमात्मानमात्मनोऽध्यवसायस्वरूपं चाख्यातवान् । उत्पन्नप्रतीतिश्वाहमहो साधु साध्वनेन परेगितावगमकौशलेन । कङ्कालक! साधु त्वया लक्षितोऽयमिति रभसादभिनन्द्य तं राक्षसचरं सबहुमानमालिङ्गितवान् । इतोऽप्यसावुदग्रतद्विक्रमातिरेकपरितुष्टो महाव्रती झटित्याकृष्टिविद्यया दिव्यं कृपाणमानीय दत्वा चायुधकृते निरायुधाय तस्मै तथैव च स्वयमन्तरिक्षेण वर्मना निर्गत्य ययौ । सोऽपि राजपुत्रः करेकृतेन तेनासिना सह प्रविश्यान्तरायतनस्य स्थितो निद्रातुम् , अथाहमहो यादगाख्यातस्तादृश एवायमसाध्यः सगरेण । विशेषतः सहेतिरमुना कृपाणेन । यस्यास्य दृष्टिमपि वयमनीश्वराः सोढम् । अतो मायैव प्रयोजनीयाऽस्मिन्निति वितर्कसमकालमुन्मीलितया धिया सहर्षमये किमन्यदालोच्यते द्यूतव्यसनवानयं, तत्खलु मायाविना द्यूतेन प्रतार्य