________________
उदयसुन्दरीकथा। तस्याहं मातुलसूनुरनल्पेन च गृहीतः प्रेम्णा रावणक्रोधनिःसृतस्यापत्सहायः सहानुवर्ती हृदयस्य मायावलो नाम । एकदाऽस्मत्स्वामी विभीषणः सह प्रणयिना लोकेन सुकेलिललितया सन्तिष्ठमानो गोष्ठया झटित्याकूतसत्वरमागत्य विज्ञप्तः प्रतीहारेण–देव कङ्कालको नाम कौणपः कुतोऽपि वेगादागतो देवेन सह दर्शनं निर्विलम्बमर्थयत इत्येवं निशम्य स्वामिना शीघ्रं प्रवेशयेत्यादिष्टो द्वारपालस्तथा कृतवान् । असावपि प्रविश्य कृतप्रणामो राक्षसः स्वामिन्नेकान्तसमाख्येयं कार्यमित्युक्तवान् । तथाऽस्मद्वितीय एव स्थिते राक्षसपतौ स खलु सङ्केपतः कङ्कालको वक्तुमुपाक्रमत-देव ! तदा देवेन प्रेष्यमाणेषु प्रतिदिशमवनितलचारिषु चरेष्वहमप्युत्तरां दिशमुररीकृत्य निर्यातवानितः । तथा निर्गत्य चोल्लवय लहरीविसारिशीकरनिकरान्धकारितदिवं महानदी नर्मदामधिविष्टः प्रकृष्टं पत्तनेषु पल्लवितधवलध्वजाटोपं लडहलाटीकटाक्षः, अलङ्कतजनालापमालापभङ्गिभिर्विलासिनाम्, आश्रयं श्रीमतां भृगुगच्छं नाम नगरम् । तत्र चासीमरम्यतया निरुद्धहृदयोऽहं कियतोऽपि वासरानतिक्रम्य क्रमेणोत्तरापथवर्तिष्वशेषदेशान्तःपातिष्वनेकशोऽपि ग्रामपुरपत्तनाधिष्ठानेषु विचरन्कंसारिशैशवदशास्पदमागतो मथुरेति नाम्ना नगरीम् । तस्यां सहसैव परमागतेन मया भ्रातृयोगाद्विघटित इव मारुतिः, पुरुषरूपेण परिणत इवाञ्जनेयः, क्षत्रियकुलेऽवतीर्ण इव द्रौणिः, द्विभुजमूर्त्या प्रतिष्ठित इव कार्तवीर्यः, प्रधानः पौरुषेण प्रवीरो राजसूनुरेकश्चतुष्पथे प्रथीयसाऽनुबन्धेन खेलन्नसङ्ख्यपणितार्थदुस्तरं द्यूतमालोकितः कुमारकेसरी नाम । नाम च तस्यापरै तसहचारिभिरुदीर्यमाणमवबुद्धवान् । अस्मिन् सञ्जातकौतुकश्चाहमहो कुतोऽयमियन्तमसंभाव्यमिह खेलनायार्थ प्रस्तावयतीति नाथ ! यावदालोकयामि तावत्किमालोक्यते भुवनमप्यवीरं मन्यमानो यत्रैव कुत्रचिद्धनीयसि दुर्गमे चास्थानेऽस्ति द्रव्यं ततोऽसौ विघट्य हठादुद्भटं सुभटभुजपरिघसङ्घन्टमन्यदप्यचिन्त्यमन्तरायकारणमानयत्यर्थजातम् । न चास्ति तत्पौरुषस्य किमप्यसाध्यमगम्यं वा प्रायस्त्रिभुवनेऽपि । अनन्तरमुद्भूतविकल्पेन चिन्तितं मया-नन्वेष . बलवानवश्यमनेन छूतसम्बन्धिना महारसेन साङ्गतेन चामुनाऽध्यवसायडम्बरेण साहसेन च मरुतामपि त्रासकेन कनकार्थी मेरुमुत्पाटयति, रत्नेच्छया फणीन्द्रफणापटलमुद्दलयति, अर्थकामश्च गृह्णाति बन्दे कुबेरनाथम् । किन्नाम कपिमात्रकमेकाकी चाञ्जनेयः प्रखरदशकन्धरभुजापञ्जरगतामपि न लङ्कामा