________________
सोडविरचिता
किमिति चेत्थमतुच्छमनसाऽपि भवता कृपास्पदमारब्धेयं तपस्विनीत्यादि पृष्टो नृपेण सोऽब्रवीत्
८४
कथयामि श्रूयतामुर्वी ( पते ! ) प्रसिद्वैव भवतामस्तीह तोयधेर्दक्षिणस्य परं कूलमलङ्कृत्य स्थिता सर्वतोऽप्युद्दीप्रकनकमयाशेषसृष्टितया बहिनिर्गतस्यास्थानपदवीव वाडवस्य, वज्रिहतपक्षस्य वज्रदहनविश्रान्तिरिव त्रिकूटशैलस्य, हरशरहुताशदीप्तस्य प्रद्युतिरिव त्रिपुरस्य, कनकसञ्चयपरस्य कोश - र्द्धिरिव दक्षिणदिगीश्वरस्य, प्रलयपवनास्फालनत्रुटिता हेमाद्रिशिरःश्रेणिरिव विदीर्य शतशः प्रकीर्णा भूतले, भूय (रिव?) सौवर्णी त्रिभुवनश्रियः श्रियो - ऽनुकारादुत्पादितेन्द्रपुरीशङ्का लङ्का नाम नगरी । यस्यामद्यापि दशकण्ठशासनकदर्थनानुस्मरणत्रासात्समीरणः प्रचलदायतपताकाग्रतरलिमाकारेण सदैव कम्पमानः प्रविशति । यस्यां च रावणेन बलादानीय निभृतानां त्रिदशबन्दीनामनवरतमनर्गलाश्रुपातमलिनितानीव कालिमानमावहन्ति मरकतोपलफलकनिर्माणवन्ति हर्म्येषु मणिकुट्टिमतलानि । या खल्वहो विना दशाननमिदानीं कोमला पकारितामुत्सृज्य स्वातन्त्र्येण प्रवृत्तोऽयमिति पतिपराभवमसहमाना तपति तीव्रमादित्ये सूर्यमणिभूमिकाऽऽविर्भूयमानार्चिश्छलेन कोपादिव ज्वलति । या च दशकन्धरे स्वामिन्युपरते विलासवापीषु पीडयति कमलषण्डमचण्डधामाऽसावित्युदये चन्द्रमसः स्यन्दमानेन्दुमणिगवाक्षवलभीजलबिन्दुराजिभिरजस्रमेव शोकादिव रोदिति । तस्यां च रक्षसामधीश्वरः पुलस्तेरपत्यम्, अन्वयाभरणमम्भोजभुवो भगवतः, श्रीमतश्च विष्णोश्चरणनख'चन्द्रिकाऽऽचान्तललाटतटकालिमान्धकारधोरणिः, अनन्तरं रावणस्य प्रतिष्ठितो राघवेणात्मनः प्रताप इवास्ति राजा विभीषण इति । असावपि ख्यात एक भुवनेषु ।
धाम्ना तीव्रगुणाञ्चितेन जगतामत्यन्तमुत्तापके
प्राप्ते कालवशान्निशाचरपतौ लोकान्तरं रावणे । तेजस्वी शिशिराशयः शुचिसुधानिष्यन्दहृद्याकृतिर्यः सूर्येऽस्तमिते शशीव समभूदाप्यायको देहिनाम् ॥
अपि च
योऽभून्निसर्गमलिने रौद्रे जातोऽपि रक्षसां गोले । विमलाकृतिरतिसेव्यो मणिरिव फणिनां फणाफलके ॥