Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 58
________________ उदयसुन्दरी कथा । ४७ रान्तराहरितपृथुपलाशमांसलैश्च कदलीख(का?)ण्डैरखण्डिताभोगशोभं, विविधफलपाकविशेषास्वादमुदितद्विजकृतकोलाहलोपलक्ष्यमाणमध्यं सत्रमिव वैदेशिकानां, अनङ्गजनकेन सौरभेणाध्यासितं श्वशुरकुलमिव रतेः, प्रथितपत्ररथसनाथं राजभवनमिव रामणीयकस्य, बहिर्निवेशितस्नुहिबदरनिर्गुण्डीझाटकृतरक्षं प्रसवास्पदमिव वनश्रियः, समुपविष्टानेकजरत्कीरपरिगतमन्तःपुराधिष्ठानमिव मन्मथस्य, क्रीडानिकुञ्जमिव शृंगारमृगेन्द्रस्य, दुर्गमिव सर्वर्तुकिरातानां, ऐश्वर्यमिव वसन्तस्य, चलितमिव मलयानिलस्य, निकामरमणीयं स्थानमिन्द्रियाणां कुसुमसुन्दरं नाम विलासोद्यानं ददर्श । तच सकलसमयसमीहितानामास्पदमुदीक्ष्य समन्ताद्पनेतुमातपक्लान्तिमवेक्षितुं च कौतुकरसेन वनश्रियः शोभामशिश्रियत् । अथ तत्र विश्रामरसोत्सुकीभूतहृदयेषु त्वरितमुत्तीर्य केषुचिदुत्पर्याणयत्सु, केषुचित्पांसुलायां भुवि लोठयत्सु, केषुचित्सङ्कलय्य दूर्वास्थले विमुश्चत्सु, केषुचिद्गण्डशैलनिर्झरे लापयत्सु, केषुचित्पयः पाययत्सु, केषुचिच्छायासु चालयत्सु तुरङ्गमानश्ववारेषु, पत्तिषु च केषुचिदुत्तार्य कूर्पासकान्पवनमादानेषु, केषुचिदुन्मोच्य बन्धनं केशान् विकिरत्सु, केषुचिदास्तृत्योत्तरीयं लतामण्डपमधिशयानेषु, केषुचिच्छायासूपविश्यात्मानमुपवीजयत्सु, केषुचित्प्रविश्य दीर्घिकास्वङ्गानिक्षालयत्सु, केषुचिवेक्ष्य रम्यतामितस्ततो भ्रमत्सु, केषुचिनिपतितानि भुवि खा. दत्सु फलानि, गृहृत्सुकुसुमानीत(रेषु,?)यथायथं निषीदति परिजने, त्वरितमेव सम्मुखमुपागतं दशनक्षतैरनल्पपरिपाटलद्युतिभिः फलैरापूर्णगर्भपात्रमुद्रहता दारकेणानुगम्यमानं कृतप्रणाममतिप्रसादस्निग्धया दृशा गिरा सन्मान्य वनपालं वसन्तशीलमवनीश्वरः सरभसमभीक्षिताभ्यन्तरमनोज्ञताकृष्टमानसःप्रवेश एवावतीर्य तुरङ्गपृष्ठादधिष्ठितः कतिभिरवसरोचितैः सखिभिरन्तःप्रविश्य विजयवर्द्धनस्कन्धविन्यस्तपाणिः समन्थरक्रममनुप्रधावता वसन्तशीलेन निवेद्यमानेषु विविधतरुवल्लिवीरुधां वलयेषु विसरदमृताम्बुसारणीमिव धवलायतां निवेशयन् दृष्टिमस्तोकतोषः स्तोकान्तरमगच्छत् । अच्छिन्नकौतुकश्च तथा गच्छन्पादय(?)देकाभिरुल्लसदशोकतरुताडनोत्पातचरणारणितमणिनूपुराभिः,(काभिश्चित्) केसरोपचारमदिरागण्डूषसौरभाकृष्टषट्चरणझङ्कारिणीभिः, काभिश्च कुरवकालिङ्गनविलोलभुजलतोच्छलबलयकलरवाभिरावय॑मानपादृष्टिपातः समदसीमन्तिनीभिः, सलीलमशेषतः पश्यन् पुरस्तात्कारागृहमशेषरत्नानां, यज्ञावासकमसमसायकरसस्य, रामणीयकलोभस्थितैर्मधुसमयखेलनोच्छलितजलबिन्दु

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180