Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 60
________________ उदयसुन्दरी कथा । श्रुत्वा च तं झगिति सर्वतो भ्रमितदृष्टिरुद्दिश्य वसन्तशीलं (प्रोवाच) अहो ! कचिदिहैव कोऽपि नूनमवधीरितो वल्लभया सोपालम्भमिव सखीषु प्रतिपादयन्नेष ब्रूते इति प्रोक्ते नृपेण वसन्तशीलः कृत्वा स्मितमुवाच । स्वामिन् ! न कश्चिदयमवज्ञातः प्रियया, न चैष जनः प्रतिपाद्यते सखीनां, यदेतत्तदाकर्णयतु स्वामी । देव ! यः किल देवेन मनोहरंविनोदोपकरणमर्पितो मे पालयितुमनल्पगुणश्चित्रशिखो नाम शुकस्तमहमद्य समागते स्वामिनि निकामव्यग्रतया विस्मृतो वराकमभ्यवहारेण संभावयितुं, स एष स्वामिन्नमुना मरकतस्तम्भेनान्तरितपञ्जरोऽत्र गर्भे मण्डपस्य क्षुधान्धीभूतमानसः प्रतीय साक्षादिवैतस्या वज्रोपलशालभञ्जिकायाः करे कमलरागदाडिममिदं मुहुर्याचितमनासाद्य सखीन मादिमास्वभ्यर्णवर्तिनीषु विविधमणिपुत्रिकासु ज्ञापयन्नेतदेवमालपति। इतिविज्ञप्ते पृथिवीपतिरुक्तवान् । अहो! तथाविधस्याप्येतस्य सकलतत्वावबोधबुद्धिमतश्चित्रशिखस्य सुदूरमिह विपर्यस्तं चैतन्यममुना कृत्रिमफलाभिलाषेण, तत्वलु दृश्यतां कियत्किल विगलितविवेकोऽयमात्मानं नटयति । इत्युक्त्वा पश्यति नरेश्वरे निस्सरणसमुद्यमैकरोषिणस्तस्य प्रखरचञ्चसन्दंशग्रहेण मुहुर्मुहुराकृष्यमाणा तुसिल(पेशल?)त्वात्पाषाणजातेस्तनीयस्त्वात्स्वरूपस्य कथञ्चन सा नाम विद्रुमशलाकामयी पञ्जरद्वारान्तरालसरिका झटित्येव परं भग्ना।तेन च पथालघुनिर्गमोनन्वेष निःसृतशिखो ध्रियतामिति न यावदुच्छलितः कलकलस्तावदसौ झगिति निर्गतः पञ्जरकोडसङ्कटा(द)वकाशविस्तरायां भुवि निरवग्रहं प्रचारमासाद्य तदावेशप्रधावितस्त्वरितमेव सिंहासनस्थानवेदिकामध्यरोहत् । आरुह्य च सन्निधीभूतमुपकोणतलवर्त्तिरत्नपुत्रिकाकरगतं तत्पद्मरागदाडिमं सुदूरमुदश्चिताघातचण्डया चश्वा जघान । तेन च झटिति दृढमणिशिलास्फालेन विदलिता चञ्चः। चञ्चभङ्गसमकालमेकहेलयैव तस्यां शुकशकुन्तमूर्त्ताविभेन्द्रकरपीवरोरुरायतभुजः परिघवक्षःस्थलो विसङ्कटललाटपट्टः स्पष्ठाकृतिरष्टादशवर्षदेशीयः पुरुषो बभूव । राजाऽपि विस्मयोत्क्षिप्तपक्षमपालिः अहो ! किम् ! किम् ! किमेतदाश्चर्यमियत्येवान्तरे कां दशामुपेतश्चित्रशिखः ?" इति ससंभ्रमं सह पार्श्वगैर्द्रष्टुमारब्धवान् । सोऽपि कुतश्चिद्विच्युतंकायात्कुटिमैकदेशनिपतितमादाय करेण किमपि संवृतं वस्तु विचिन्त्य च किश्चिदुन्मीलितस्मितः समन्तान्मणिकर्मरमणीयं तं मण्डपमुदीक्ष्य बहिः प्रहिणोति लोचने यावत्तावज्झगित्येवाने ७ उदयस.

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180