________________
उदयसुन्दरी कथा । श्रुत्वा च तं झगिति सर्वतो भ्रमितदृष्टिरुद्दिश्य वसन्तशीलं (प्रोवाच) अहो ! कचिदिहैव कोऽपि नूनमवधीरितो वल्लभया सोपालम्भमिव सखीषु प्रतिपादयन्नेष ब्रूते इति प्रोक्ते नृपेण वसन्तशीलः कृत्वा स्मितमुवाच । स्वामिन् ! न कश्चिदयमवज्ञातः प्रियया, न चैष जनः प्रतिपाद्यते सखीनां, यदेतत्तदाकर्णयतु स्वामी । देव ! यः किल देवेन मनोहरंविनोदोपकरणमर्पितो मे पालयितुमनल्पगुणश्चित्रशिखो नाम शुकस्तमहमद्य समागते स्वामिनि निकामव्यग्रतया विस्मृतो वराकमभ्यवहारेण संभावयितुं, स एष स्वामिन्नमुना मरकतस्तम्भेनान्तरितपञ्जरोऽत्र गर्भे मण्डपस्य क्षुधान्धीभूतमानसः प्रतीय साक्षादिवैतस्या वज्रोपलशालभञ्जिकायाः करे कमलरागदाडिममिदं मुहुर्याचितमनासाद्य सखीन मादिमास्वभ्यर्णवर्तिनीषु विविधमणिपुत्रिकासु ज्ञापयन्नेतदेवमालपति। इतिविज्ञप्ते पृथिवीपतिरुक्तवान् । अहो! तथाविधस्याप्येतस्य सकलतत्वावबोधबुद्धिमतश्चित्रशिखस्य सुदूरमिह विपर्यस्तं चैतन्यममुना कृत्रिमफलाभिलाषेण, तत्वलु दृश्यतां कियत्किल विगलितविवेकोऽयमात्मानं नटयति । इत्युक्त्वा पश्यति नरेश्वरे निस्सरणसमुद्यमैकरोषिणस्तस्य प्रखरचञ्चसन्दंशग्रहेण मुहुर्मुहुराकृष्यमाणा तुसिल(पेशल?)त्वात्पाषाणजातेस्तनीयस्त्वात्स्वरूपस्य कथञ्चन सा नाम विद्रुमशलाकामयी पञ्जरद्वारान्तरालसरिका झटित्येव परं भग्ना।तेन च पथालघुनिर्गमोनन्वेष निःसृतशिखो ध्रियतामिति न यावदुच्छलितः कलकलस्तावदसौ झगिति निर्गतः पञ्जरकोडसङ्कटा(द)वकाशविस्तरायां भुवि निरवग्रहं प्रचारमासाद्य तदावेशप्रधावितस्त्वरितमेव सिंहासनस्थानवेदिकामध्यरोहत् । आरुह्य च सन्निधीभूतमुपकोणतलवर्त्तिरत्नपुत्रिकाकरगतं तत्पद्मरागदाडिमं सुदूरमुदश्चिताघातचण्डया चश्वा जघान । तेन च झटिति दृढमणिशिलास्फालेन विदलिता चञ्चः। चञ्चभङ्गसमकालमेकहेलयैव तस्यां शुकशकुन्तमूर्त्ताविभेन्द्रकरपीवरोरुरायतभुजः परिघवक्षःस्थलो विसङ्कटललाटपट्टः स्पष्ठाकृतिरष्टादशवर्षदेशीयः पुरुषो बभूव ।
राजाऽपि विस्मयोत्क्षिप्तपक्षमपालिः अहो ! किम् ! किम् ! किमेतदाश्चर्यमियत्येवान्तरे कां दशामुपेतश्चित्रशिखः ?" इति ससंभ्रमं सह पार्श्वगैर्द्रष्टुमारब्धवान् । सोऽपि कुतश्चिद्विच्युतंकायात्कुटिमैकदेशनिपतितमादाय करेण किमपि संवृतं वस्तु विचिन्त्य च किश्चिदुन्मीलितस्मितः समन्तान्मणिकर्मरमणीयं तं मण्डपमुदीक्ष्य बहिः प्रहिणोति लोचने यावत्तावज्झगित्येवाने
७ उदयस.