________________
सोडलविरचिता येनान्तराधृतभरेण धराधिपत्ये राज्ञां जयत्यहतविस्तरमातपत्रम् ॥ किं बहुना। तृतीयमकृतोन्मेषं कायस्थ इति लोचनम् ।
राजवर्गो वहन्नेष भवेदत्र महेश्वरः ॥ तस्मिन्नशेषभुवनविख्यातनामनि महावंशे दलितकलिकलङ्कसंहतिरमृतमयाकारकमनीयो नर्मदाप्रवाह इव भूतिलकमधिष्ठितो लाटदेशमासीदुमेशवंशावतीर्णस्य महात्मनश्चण्डपतेरङ्गजन्मा सोल्लपेयो नाम । तस्य च बहूनामन्यतमः सुतानामीश्वरविभूषणं शशीव ग्रहाणामनन्तमुखोदश्चितप्रघोषः पाञ्चजन्य इव शङ्खानां सुमनसामभीष्टः पारिजात इव तरूणामसीमवता गुणग्रामेण निरुद्धनिखिलमेदिनीविभागः सुवृत्ततया तिलको गोत्रस्य सुगृहीतनामा सूर इति सूनुर्बभूव । तस्मादमलमुक्तावदातकीतः पुरुषपुङ्गवादजायत प्रथमः पुत्रेषु पम्पावतीसूनुः सोडलो नाम । स खलु स्वर्लोकशोभाविलुण्टिनं लाटदेशमध्यासितो विद्याभ्याससमकालमुन्मेषमागते कविपथोपदर्शिनि सारस्वते ज्योतिषि निसर्गसुस्थितस्तेनैव कवितारसेन मानसमनुशीलयामास । कालपरिवर्त्तितावस्थितिक्रमेण च मृगमदपत्रभङ्गिमयं कोङ्कणभुवो मण्डनमिवोद्यानवनविनीलपरिसरं स्थानकं नाम राजधानीनगरमागत्यावस्थितः कोङ्कणमहीभुजो जाह्नवीयमुनयोरिव सरस्वतीश्रियोर्वेणीसङ्गमेन संवर्गितः छित्तराजेन संभूषितो नागार्जुनेन संमानितो मुम्मुणिनरेश्वरेणेति सोदरेण क्रमोपभुक्तराज्यसंपदा राजत्रयेण प्रतिपद्यमानः कवीन्द्रसदसि प्रतिष्ठामाससाद । अथ कदाचिदसावुदयगिरिशिखरयन्त्रोल्लालितविमुक्ते तिमिरकरिघटाघातिनि गण्डोपलगोल इवाम्बरमनुसरति भगवतस्तीव्रत्विषो मण्डले चण्डकरकिरणकुञ्चिकोद्धाट्यमानेष्विव विघटितदलकवाटसम्पुटषु ब्यक्तीभवत्सु तामरसकोशेषु दिवसलुण्टाकोल्लुण्टितश्रियः कुवलयवनादाक्रन्दमुखरासु प्रभास्विव समीपमम्बुजग्राममनुप्रधावतीषु गुञ्जतामिन्दिन्दिराणां श्रेणिषु प्रदोषपवनपटपल्लवापमाय॑माणेष्विव निर्मलीभूतेषु ककुभां मुखेषु वासरविधेयकर्मणि क्रमशः प्रवृत्तेषु जनपदेषु जाते च लोचनावकाशदायिनि प्रभातसमये सभामधिष्ठितं कीर्तिचन्द्रिकाविस्तारसितपक्षमनाकृष्टचापकन्दर्पमलङ्कारमाणिक्यं चौलुक्यवंशस्य कवीशमीश्वरं लाटदेशश्रियः कोङ्कणेन्द्रसुहृदमुर्वी पतिं वत्सराजमनु प्रणयपरिणतानन्तसङ्गतिसुखोपभोगार्थमाहूय नीतो जगाम। तत्र च प्रवर्त्तमानासु चतुरकविकदम्बकोदश्यमानानेकरसविपञ्चनपटीयसीषु