________________
उदयसुन्दरी कथा |
११
मदीयमिदं वचः प्रमाणीकृत्य समर्पय सर्वाधिकारस्वामिनीं प्रातरमात्यमुद्रामे - तस्य, येनाहमनेन परिपालिता निरपायमाप्यायनसुखान्यनुभवामीत्यभिधाय धृत्वा करपल्लवेन सा चैषा मदङ्गरक्षाकृते मुररिपुप्रहिता स्वयमुपरिकेण गरुडेनाधिष्ठिता सुवृत्तशालिनी सुवर्णसंभूतिर्महत्तरा मुद्रा, ग्रहीष्यति च भवानुभावादपगतान्यभावापग्रहः कलादित्य इति राज्ञः करे मुद्रां समर्प्य झगित्येव शय्यासन्नवर्त्तिनि कृपाणे तदेव निजं मर्त्यजनविलोचनागोचरं स्वरूपमाधाय विशश्राम | राजा तु मुद्रालाभसुभगेन तेन व्यतिकरेण सरभसमुल्लसितमानसस्तमल्पशेषमपि कल्पप्रमाणं मन्यमानोऽञ्चलं रात्रेः कथं कथमपि जाग्रदेव बन्दिनां वर्णावलीवचोभिराख्यायमानमासाद्य प्रभातमुत्थितो निर्वर्त्य निखिलमवसरोचितं क्रियाकलापमारात्रिकादिमङ्गलोपचारशालिनि विशालमणिवेदिकाचतुष्के विरचितास्थानमुपविष्टः । पुरो निविष्टेषु प्रणयिलोकेषु कुवलयदलायतेन चक्षुषा संभाव्य सन्निहितमासीनं पुण्डरीकनामानमसामान्यगौरवं पुरोधसमशेषतोऽपि तं शर्वरीवृत्तान्तं कर्ण एव निभृतमावेदयाञ्चक्रे, दर्शयामास च तां कल्याणमयीं मुद्राम् । अथ प्रतुष्टेन पुरोधसा श्रवणादेव महाराज ! नियतमवितथान्येव देवतावचांसि । पश्य शुभसूचकमिदमेव मङ्गलवतां कर्मणामुपस्थितं मुहूर्त्तम् । अत्र हि कमलया प्रदत्तो विना विलम्बमादेशः क्रियत इति प्रोक्ते राजा त्वरितमाहूय बहुमतेन प्रेमोपचारबन्धुना वचोनिर्बन्धेन प्रबोध्य सजीकृतमनल्पसमुचितेन प्रक्रियाक्रमेण मुद्रामर्पयित्वा तं निष्कण्टकीभूतसकलभूवलयनिराकुलतया विरतविक्रमव्यापारमात्मनो भ्रातरं कलादित्य ममात्यपदे निरूपयामास । अनन्तरमसौ कायस्थनाम्नो महेश्वरगणस्यावतारः क्षत्रियविभूषणं कलादित्यस्तेन भवस्य भगवतोऽनुभावेन तामेव निजाग्रजराज्यलक्ष्मीपालनपरामधिकारपद्वीमादृत्य व्यापारितस्वान्तः सन्तत्या प्रसरमाससाद । पूरितावधिश्च तमात्मनो गणमयं स्वरूपमासाद्य स्वामिनो हरस्य चरणान्तिकमगच्छत् । तस्मात्कालपरिवृत्तिपरम्परोत्पद्यमानानन्तपुरुषपरिपाटिक्रमेण प्रकामतुङ्गः शाखाभिर्विस्तृतो वर्जितच्छायः क्ष्माभृतां कटकेषु स्वाङ्गभुवा धर्मेण विजयहेतुः क्षत्रियाणां, वृद्ध्यर्थमालम्बनं राजलक्ष्मीलतायाः, भ्रमतः समन्तादाधारदण्डो वृद्धस्य यशसः, काश्यपीसीमन्तभूषणमभूद्दलभीविनिर्गत इति वालभो नाम कायस्थानां वंशः ॥
वंशस्य सच्चरितसारवतः किमङ्ग ! सङ्गीयते सुललिताकुदिलस्य तस्य ।