________________
स्याद्वादबोधिनी-१८ द्रव्य-वृत्तयो व्यावर्तकाः विशेषा इति लक्षणम् । विशेषाः अनन्ताः कुतः ? कालादयोऽप्यनन्ता एव । अतस्तन् निष्ठा विशेषाः अनन्ताः, विशेषभेदेन पदार्थाः भिद्यन्ते न तु स्वतः शुक्लादिगुणभेदेन घटपटादयो भिद्यन्ते । अतो भेदकारणं विशेषा एवेति वैशेषिकन्यायविदः ।
कुशलिनो जैनाः, स्याद्वाददर्शन-भावना भाविताः । नैवं मन्यन्ते । भगवता श्रीमहावीरेण सामान्यविशेषभेदः कालादिभेदेन पदार्थे स्वयमेव स्वभावेन स्वीकृतः, न तु परतः । अतः परे न कुशलिनः सामान्येन हेतुना एकाकारप्रतीति-विशेषपदार्थकारणेन भेदप्रतीति स्वीकुर्वन्ति । तेऽ कुशलिनः, तत्त्वविमर्श परे स्खलन्ति । यः स्खलति स हास्यास्पदं लभते, न तु कुशली। अतो भेदाऽभेदमूलक विशेष-सामान्यमिति गिरन्त एव स्खलन्ति ।
9 भावार्थ-अब कलिकालसर्वज्ञ प्राचार्य महाराज श्री नयमार्ग का विचार प्रस्तुत करने के लिए अन्य मतावलम्बियों द्वारा मान्य तत्त्वों के प्रामाण्य के निराकरणार्थ छह काव्यों में वैशेषिक मत के तत्त्वों में दूषण बताते हुए सर्वप्रथम 'सामान्य-विशेषः' में दोष प्रदर्शित करते हैं