Book Title: Syadwad Bodhini
Author(s): Jinottamvijay Gani
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 233
________________ स्याद्वादबोधिनी-२१२ अष्टलक्षाधिकश्लोक मितस्य संस्कृतस्य वै । साहित्यस्य विधातारः, कृतीशाः कीर्तिशोभिताः ।। १५ ।। शान्ताः साहित्यसम्राजो विभ्राजो ज्ञानिमण्डले । विख्याता व्याकरणे वा चस्पतयः कविरत्नकाः ।। १६ ।। शास्त्रविशारदाः जाताः, लावण्यसूरिशेखराः। तेषां पट्टधरा मुख्याः , ख्याताः शास्त्रविदो बुधाः ॥ १७ ॥ कविदिवाकरादक्षाः, शास्त्रव्याकृतिरत्नकाः । दक्षसूरीश्वराः सन्ति, सरलाः ब्रह्मचारिणः ।। १८ ॥ तत्पट्टधर-शिष्येण, सुशीलसूरिणा मया। राजस्थाने हि प्रख्याते देशे मरुधरे शुभे ।। १६ ।।

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242