Book Title: Syadwad Bodhini
Author(s): Jinottamvijay Gani
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 232
________________ स्याद्वादबोधिनी-२११ प्रतापिसेनसूरीशै-, दक्षैः श्रीदेवसूरिभिः। वादीभसिंहसदृशैः, सिंहसूरीश्वरैः क्रमात् ॥ १० ॥ उल्लासिते तपागच्छे, विजयवृद्धिकारकाः । श्रीवृद्धिविजया जाताः, वृद्धिचन्द्रादयः परे ॥ ११ ॥ तेषां वै शान्तिमूर्तीनां, पादाब्जमधुपोपमाः । सर्वशासनसम्राजो विभ्राजो ज्ञानराशिभिः ।। १२ ॥ सत्तीर्थोद्धारकाः प्रौढाः, सर्वतन्त्रस्वतन्त्रकाः । सूरिमन्त्रकप्रस्थान पञ्चकाराधकास्तथा ।। १३ ।। ब्रह्मचारिवरा धीराः, नेमिसूरीश्वरा इह । क्षमाधराचिता जाता स्तत्पटाम्बरभास्कराः ।। १४ ।।

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242