________________
स्याद्वादबोधिनी-२११
प्रतापिसेनसूरीशै-,
दक्षैः श्रीदेवसूरिभिः। वादीभसिंहसदृशैः,
सिंहसूरीश्वरैः क्रमात् ॥ १० ॥ उल्लासिते तपागच्छे,
विजयवृद्धिकारकाः । श्रीवृद्धिविजया जाताः,
वृद्धिचन्द्रादयः परे ॥ ११ ॥ तेषां वै शान्तिमूर्तीनां,
पादाब्जमधुपोपमाः । सर्वशासनसम्राजो
विभ्राजो ज्ञानराशिभिः ।। १२ ॥ सत्तीर्थोद्धारकाः प्रौढाः,
सर्वतन्त्रस्वतन्त्रकाः । सूरिमन्त्रकप्रस्थान
पञ्चकाराधकास्तथा ।। १३ ।। ब्रह्मचारिवरा धीराः,
नेमिसूरीश्वरा इह । क्षमाधराचिता जाता
स्तत्पटाम्बरभास्कराः ।। १४ ।।