Book Title: Syadwad Bodhini
Author(s): Jinottamvijay Gani
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 195
________________ स्याद्वादबोधिनी-१७४ * अन्वयः-अर्थः, दुर्नीति-नय-प्रमाणः, सदेव सत् स्यात् सद् इति त्रिधा मीयेत । यथार्थदर्शी त्वं तु नयप्रमाणेन दुर्नीतिपथम् प्रास्थः । । 卐 स्याद्वादबोधिनी-सदेव सदिति । दुर्नयेन 'पदार्थः सर्वथा सत्' नयेन ‘पदार्थः सदिति' प्रमाणेन पदार्थः स्यात् सद् (कथञ्चित् सत्) इति कृत्वा त्रिधा पदार्थज्ञानं भवति । हे प्रभो ! यथार्थदशिन् ! जिनेश्वर ! भवता तु नयप्रमाणाभ्यां दुर्नयमार्गो निराकृतः। स्याद्वादमवतार्य परमकारुणिकेन समन्वयसंस्थापको जिनेश्वरदेवेन निष्कण्टको विहितो मार्गः इतिभावः । अर्यते = परिच्छिद्यते इति-अर्थ:=पदार्थः । ऋगतौ धातुराणादिकः । तस्मात् थन् प्रत्यये गुणे कृतेऽर्थः निष्पद्यते । दुर्नीति-नयप्रमाणैरिति - नीयते एकदेश विशिष्टोऽर्थः आभिरितिनीतयो नयाः । दुष्टाः नीतयो दुर्नीतयो दुर्नया इत्यर्थः। नया: नैगमादयः। प्रमीयते= परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेनेति प्रमाणं स्याद्वादात्मकं प्रत्यक्ष-परोक्षलक्षणम् । दुर्नीतयश्च नयाश्च प्रमाणे चेति दुर्नीतिनयप्रमाणानि तैः दुर्नीतिनयप्रमाणैः-द्वन्द्वसमासः । सदिति 'सत्' पदमत्राव्यक्तत्वान् नपुंसकम् । निश्चयार्थेऽत्र 'तु' शब्दप्रयोगः ।

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242