Book Title: Syadwad Bodhini
Author(s): Jinottamvijay Gani
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
स्याद्वादबोधिनी-२०४
[ ३२ ] सम्प्रति कलिकालसर्वज्ञः श्रीहेमचन्द्राचार्योऽन्ययोगव्यवच्छेदमुपसंहरन्नाहॐ मूलश्लोकः
इदं तत्त्वातत्त्व व्यतिकरकरालेऽन्धतमसे , जगन्मायाकारैरिव हतपरहीं विनिहितम् । तदुद्धत्तुं शक्तो नियतमविसंवादिवचनः , त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ॥ ३२ ॥
* अन्वयः-हतपरैः, मायाकारैः इव, हा, इदम्, जगत्, तत्त्वातत्त्वव्यतिकरकराले, अन्धतमसे विनिहितम् । नियतम्, अविसंवादिवचनः, त्वम्, एव, तत्, उद्वर्तुम्, शक्तः । अतः त्वयि, कृतसपर्याः, कृतधियः (सन्ति) ।
+ स्याद्वादबोधिनी-इदमिति । इदं प्रत्यक्षं दृश्यमानं जगत्-इदमस्तु सन्निकटे प्रयोगः । तत्त्वं च अतत्त्वं चेति तत्त्वातत्त्वे तयोर्व्यतिकरो व्यामिश्रणं तेन करालेअतिभयावहे, अतिशयेन अन्धं तमः इति अन्धतमः तस्मिन्अन्धतमसे प्रगाढान्धकारे। मायामिन्द्रजालं कुर्वन्तीति मायाकारास्तैर्मायाकारैः परवञ्चननिपुणैः हननं हतम्भावे क्तः-परमर्महननकुशलैः परैः वेदान्तादिदार्शनिकैः,
Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242