Book Title: Syadwad Bodhini
Author(s): Jinottamvijay Gani
Publisher: Sushil Sahitya Prakashan Samiti
View full book text
________________
स्याद्वादबोधिनी-१८८
निपत्येते-निकाय इति । श्री जैनसिद्धान्तेऽसंख्यातेषु द्वीपसमुद्रेषु सर्वतो न्यूनाः त्रसजीवाः, ततोऽधिकाः अग्नि, कायिकाः, ततोऽधिकाः पृथ्वीकायिकाः, ततोऽधिकाः जलकायिकाः, ततोऽधिकाः वायु कायिकाः, ततोऽधिकाः वनस्पति कायिकाः । वनस्पति-कायिकाः जीवाः व्यवहारा व्यवहारिकभेदाभ्यां द्विधा भवन्ति । ये जीवाः निगोदान् निःसृत्य पृथिवीकायिकाद्यवस्थां प्राप्य पुनश्च निगोदावस्थां प्राप्नुवन्ति ते 'व्यवहारिकाः' कथ्यन्ते । ये च जीवा अनादिकालतो निगोदावस्थायामेव तिष्ठन्ति तेऽ व्यवहारिकाः सन्ति । ___ श्री जैनमतानुसारेऽसंख्याता गोलाः सन्ति। यथा चोऽक्तम्गोला य असंखिणिग्गोय गोलो भणियो । इक्किक्कम्मि णिगोए अनन्त जीवा मुणे अव्वा ॥१॥ सिज्झन्ति जत्तिया खलु इह संववहारजीवरा सीयो। एंति प्रणाइवणस्सइ रासीइ तत्तिा तम्मि ॥ २ ॥ संस्कृतच्छायागोलाश्च असंख्येयाः, असंख्यनिगोदो गोलको। एककस्मिन् निगोदे अनन्तजीवा ज्ञातव्याः ॥१॥
Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242