________________
स्याद्वादबोधिनी-१७४
* अन्वयः-अर्थः, दुर्नीति-नय-प्रमाणः, सदेव सत् स्यात् सद् इति त्रिधा मीयेत । यथार्थदर्शी त्वं तु नयप्रमाणेन दुर्नीतिपथम् प्रास्थः । ।
卐 स्याद्वादबोधिनी-सदेव सदिति । दुर्नयेन 'पदार्थः सर्वथा सत्' नयेन ‘पदार्थः सदिति' प्रमाणेन पदार्थः स्यात् सद् (कथञ्चित् सत्) इति कृत्वा त्रिधा पदार्थज्ञानं भवति । हे प्रभो ! यथार्थदशिन् ! जिनेश्वर ! भवता तु नयप्रमाणाभ्यां दुर्नयमार्गो निराकृतः। स्याद्वादमवतार्य परमकारुणिकेन समन्वयसंस्थापको जिनेश्वरदेवेन निष्कण्टको विहितो मार्गः इतिभावः ।
अर्यते = परिच्छिद्यते इति-अर्थ:=पदार्थः । ऋगतौ धातुराणादिकः । तस्मात् थन् प्रत्यये गुणे कृतेऽर्थः निष्पद्यते । दुर्नीति-नयप्रमाणैरिति - नीयते एकदेश विशिष्टोऽर्थः आभिरितिनीतयो नयाः । दुष्टाः नीतयो दुर्नीतयो दुर्नया इत्यर्थः। नया: नैगमादयः। प्रमीयते= परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेनेति प्रमाणं स्याद्वादात्मकं प्रत्यक्ष-परोक्षलक्षणम् । दुर्नीतयश्च नयाश्च प्रमाणे चेति दुर्नीतिनयप्रमाणानि तैः दुर्नीतिनयप्रमाणैः-द्वन्द्वसमासः । सदिति 'सत्' पदमत्राव्यक्तत्वान् नपुंसकम् । निश्चयार्थेऽत्र 'तु' शब्दप्रयोगः ।