________________
स्याद्वादबोधिनी-१७५
नय इति । कस्यापि वस्तुनः सापेक्षनिरूपणं नयः । अनन्तधर्मसंवलितं वस्तुजातम् । अनन्तधर्मेष्वेतेषु एकधर्मस्य अपेक्षया वस्तुज्ञानं (पदार्थज्ञानं) नय उच्यते । नयेन वस्तुनः एकांशतो ज्ञानं भवति । नयविषये प्रसिद्धाः संग्रहश्लोकाः ध्येयाः
अन्यदेव हि सामान्य - भिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति, मन्यते नैगमो नयः ॥ १॥ सद्रूपतानतिक्रान्तं, स्वस्वभावमिदं जगत् । सत्ता रूपतया सर्व, संगृह्णन् संग्रहो मतः ॥२॥ व्यवहारस्तु तामेव, प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद्, व्यापारयति देहिनः ॥ ३ ॥ तत्र सूत्रनीति स्याद्, शुद्धपर्याय-संश्रिता । नश्वरस्यैव भावस्य, भावास्थितिवियोगतः ॥ ४ ॥ विरोधिलिङ्गसंख्यादि-भेदाद् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं, शब्दः प्रत्यवतिष्ठते ॥ ५ ॥ तथाविधस्य तस्यापि, वस्तुनः क्षरणवतिनः । ब्रूते समभिरूढस्तु, संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्यापि ध्वनेर्वाच्यं, सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद, एवंभूतोऽभिमन्यते ॥ ७ ॥