SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ स्याद्वादबोधिनी-१७६ एते परवादिनो दुर्नयाः । तथाहि-नगमनय-दर्शनानुसारिणी नैयायिक-वैशेषिको। संग्रहाभिप्रायवृत्ता सर्वेऽप्यद्वैतवादिनः सांख्यकाराश्च व्यवहारनयानुसारिणश्चार्वाकाः । ऋजुसूत्रनयावलम्बिनश्चान्येबौद्धाः। शब्दनयानुसारिणश्च वैयाकरणादयः । __ अत्र शङ्कयं समुदेति यत् नयेन पदार्थनिश्चयो भवति प्रमाणेनापि तर्हि प्रमाणात् अन्यो नयः इति कस्मात् प्रोच्यते ? नयेन वस्तुन एकदेशिज्ञानं न तु समग्रवस्तुनः इति कृत्वा नयः प्रमाणात् पृथगिति । विषयममु स्फोरयितु श्रीतत्त्वार्थश्लोकवात्तिके प्रोक्तम् "नायं वस्तु चावस्तु वस्त्वंशः कथ्यते बुधैः । नासमुद्रः समुद्रो वा समुद्रांशो यथैव हि ॥ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता । समुद्रबहुता वा स्यात् तत्त्वे क्वास्तु समुद्रवित् ॥" [श्री तत्त्वार्थश्लोकवात्तिकम्-१/६/५-६] असंख्याता नया भवितुमर्हन्ति । सामान्य निश्चयनयापेक्षया नयस्यैक एवभेदः । यथा चोक्त श्रीतत्त्वार्थश्लोकवात्तिके
SR No.002335
Book TitleSyadwad Bodhini
Original Sutra AuthorN/A
AuthorJinottamvijay Gani
PublisherSushil Sahitya Prakashan Samiti
Publication Year1997
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy