SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ स्याद्वादबोधिनी-१७७ सामान्यादेशतस्तावदेक एव नयः स्थितः । स्याद्वाद-प्रविभक्तार्थ विशेषव्यञ्जनात्मकः ।। [श्रीतत्त्वार्थश्लो० १/३३/२] सामान्य विशेषापेक्षया द्रव्याथिकः (द्रव्यास्तिकः), पर्यायाथिकश्च द्वौ भेदौ भवत इति श्रीसन्मतितर्के व्यवस्थितम्-“दव्वढियो य पज्जवणो य सेसावियप्पासिं ।” संस्कृतच्छाया-(द्रव्यास्तिकश्च पर्यायनयश्च शेषाः विकल्पास्तयोः) परस्पर विविक्त सामान्य-विशेषविषयत्वात् द्रव्यार्थिक-पर्यायाथिकावेव नयौ। न च तृतीयं प्रकारान्तरमस्ति यद् विषयोऽन्यस्ताभ्यां व्यतिरिक्तो नयः स्यात् । श्रीतत्त्वार्थश्लोकवात्ति केऽपि संक्षेपतः द्वौ एतावेव स्वीकृतौ । यथा-'संक्षेपाद् द्वौ विशेषेण द्रव्य-पर्यायगोचरौ ।' ___ नयवादनिरूपणे श्रीजैनतार्किकाणां सैद्धान्तिकानां च द्वे परम्परे विश्रुते इति विभाव्यते । ____ तत्र तार्किकाणां मते द्रव्याथिकाः नैगमादयस्त्रयः, पर्यायास्तिकाः ऋजुसूत्रादयश्चत्वारो भेदास्सन्ति । अस्याः परम्पराया अनुयायिनः श्रीसिद्धसेनदिवाकर-माणिक्यनन्दिवादिदेवसूरि - प्रभाचन्द्र - यशोविजयादयो विश्वविश्रुताः विद्वान्सः सन्ति ।
SR No.002335
Book TitleSyadwad Bodhini
Original Sutra AuthorN/A
AuthorJinottamvijay Gani
PublisherSushil Sahitya Prakashan Samiti
Publication Year1997
Total Pages242
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy