________________
स्याद्वादबोधिनी-१७८ द्वितीया परम्परा सैद्धान्तिकानामस्ति तदनुसारेण द्रव्याथिकाः नैगमादयश्चत्वारः पर्यायाथिकाः शब्दादयस्त्रयश्च नयभेदाः। सैद्धान्तिकपरम्परायां क्षमाश्रमणश्रीजिनभद्रगणि-विजयदेवसेनादयः आचार्याः प्रख्याताः ।
विशेषावश्यके भाष्ये तु पञ्चशतानि सप्तशतानि नयभेदाः कथिताः"इक्किक्को य सयविहो, सत्तनयसया हवंति एवमेव । अन्नो विय आ एसो, पचेव सया नयाणंतु ॥" .
प्रत्येकस्य नयस्य शतं भेदान् कृत्वा नेगम-संग्रहव्यवहार-ऋजुसूत्र-शब्दानां पञ्चनयानां पञ्चशतानि भेद सप्तनय स्वीकारे तु सप्तशतानि नयस्य भेदा इति भावः । वस्तुतस्तु यावन्ति वचनानि तावन्तोऽसंख्याता भेदाः नयस्येति पूर्वोक्तमेव श्रेयान् ।।
- भाषानुवादः - अब, कलिकालसर्वज्ञ प्राचार्यप्रवर श्री हेमचन्द्र सूरीश्वरजी महाराज परकीय दार्शनिकों की दुर्नीति (दुर्नय) पर आक्षेप प्रस्तुत करते हुए 'नय तथा प्रमाण से पदार्थज्ञान होता है' एतत् प्रकारक श्री जिनेश्वर भगवान् के वचनातिशय की स्तुति करते हुए कहते हैं