Book Title: Syadwad Bodhini
Author(s): Jinottamvijay Gani
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 206
________________ स्याद्वादबोधिनी-१८५ ॐ मूलश्लोकः मुक्तोऽपि वाभ्येतु भवं भवो वा , ___ भवस्थशून्योऽस्तु मितात्मवादे । षड्जीवकायं त्वमनन्तसंख्यम् , आख्यस्तथा नाथ ! यथा न दोषः ॥ २६ ॥ * अन्वयः-मितात्मवादे मुक्तः, अपि, भवम्, वा अभ्येतु। वा भवः, भवस्थशून्यः अस्तु । हे नाथ ! त्वं यथा षड्जीवकायम्, अनन्तसंख्यम्, पाख्यः, तथा न दोषः । .स्याद्वादबोधिनी-मुक्तोऽपोति । मुक्तः संसारबन्धनोच्छेदं प्राप्तः । परमशान्तिं प्राप्तः । अपि शब्दप्रयोगोऽत्र विस्मयार्थे कृतः । न मुक्तात्मानो भवं भ्रमन्ति । ते तथा स्युरिति विस्मयः । ___ अयं भावः-यदि परिमिता एव जीवाः परवादिभिः स्वीक्रियन्ते तहि दोषद्वयमुत्पद्यते । सर्वैर्शिनिकैः जीवानां मुक्तिः स्वीकृता। प्रतिवर्ष एकोऽपि जीवो मुच्यते चेत् कियता कालेन भवस्वरूपहानिः स्यात् । भवन्ति, भविष्यन्ति, अभवन् यत्र स भवः कथ्यते । मुक्तात्मानां भवावतारो न भवति, यथा च देवानाम् अतो भवस्वरूप

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242