________________
स्याद्वादबोधिनी-४०
धर्मधर्मभ्यां भिन्नः समवायसम्बन्धः प्रत्यक्षज्ञानविरुद्धः । अन्यच्च वैशेषिकाः समवायमेकं नित्यं सर्वव्यापकञ्च स्वीकुर्वन्ति । एवं सति एकस्मात् पदार्थादपगते समवायेसर्वेभ्यः पदार्थेभ्यस्तस्य अपाय: स्यात् । अर्थात्-सर्वेषु पदार्थेषु स्थितः समवायो विनश्येत । यतो हि एकः सर्वव्यापकश्चेति । वैशेषिकाः 'एतेषु तन्तुषु पटः शाखायां वृक्षः' इत्यादिभिः समवायसम्बन्धः परिचिन्वति । किन्तु पटे पटत्वं समवायेन स्वीकुर्वन्ति । तन्न युक्तियुक्तम् । यदि ते सर्वत्र समवायं स्वीकुर्वन्ति तदा समवायेऽपि समवायान्तरं कथं नैव स्वीकुर्वन्ति ? अनवस्थादोषभयात् । यदि वैशेषिकाः पृथिवीत्वात् पृथिवीत्यादौ पृथिव्यां पृथिवीत्वं मुख्यसमवाय-सम्बन्धेन, तथा समवायस्यैकत्वात् समवाये समवायत्वं गौणसमवायेन मत्वा मुख्य-गौरणभेदेन समवायसम्बन्धमङ्गीकुर्वन्ति चेत् तदापि कल्पनामात्रम् । न चेदं व्यावहारिकं तात्त्विकं वेति ।। ७ ॥
चैतन्य तथा रूप आदि धर्म, आत्मा तथा घट इत्यादि धर्मियों से सर्वथा भिन्न है। तथा धर्म-धर्मी का सम्बन्ध समवाय सम्बन्ध से होता है। इस प्रकार की वैशेषिकदर्शन की मान्यता को सदोष प्रतिपादित करते हुए पूज्य कलिकालसर्वज्ञ प्राचार्य महाराजश्री कहते हैं कि'न धर्ममित्वमिति'।