________________
स्याद्वादबोधिनी-७१
जगद् द्वतजन्यं दृश्यते न केवला स्त्री न वा पुमान् विश्वमुत्पादयितु क्षमः । अतो द्वैतवादः परमार्थो न तु काल्पनिकः । विश्वरचना विषये ते कथयन्ति माया वच्छिन्नं ब्रह्म जगत् कतु क्षमः तदा एका माया परं ब्रह्म इति द्वयतत्त्वसिद्धिः।
एवं सति अद्वैतवाद सिद्धान्तक्षतिः । अतः यथा कथञ्चित् जगत् । सा माया सद्रूपेण विद्यमाना असद्रूपेण वा? सती चेत् तदा द्वैतवादः । असती चेद् तर्हि अभावरूपा। न हि स्वयमभावरूपत्वेन सन्निर्मातु शक्नोति, अभावस्य अवस्तुत्वात् । न हि सदसद्भ्यां तृतीयोऽस्ति । यथा या माता, सा वन्ध्या न । या वन्ध्या सा माता नेति । अतोऽद्वतवादस्य खण्डनम् । यथा च-प्राप्त-मीमांसायां कथितमेव
कर्मद्वतं फलद्वतं, लोकद्वतं विरुध्यते । विद्याऽविद्या द्वयं न स्याद्, बन्ध-मोक्षद्वयं तथा ।
अतः प्रागमादपि नैवाढतसिद्धिः ।। १३ ॥
वेदान्तियों के अद्वैतवाद का खण्डन करते हुए कलिकालसर्वज्ञ आचार्यप्रवरश्रीहेमचन्द्रसूरीश्वरजी महाराजश्री ने कहा है-'माया सतीति' ।