________________
स्याद्वादबोधिनी-५१
अतः तत्त्ववादिनां सदसि ते प्रस्खलन्ति ये तत्त्वमपहाय कदाग्रहमाश्रित्य वदन्ति तेऽन्यथा-प्रलापिनो हास्यतां व्रजन्ति । यद्यपि सुरभितः पवनः सुरभितं जलमिति प्रतीतिर्भवति सौरभम् । पृथिवीमात्रवृत्तिः, न तु व्यभिचार इति नैव वाच्यम् । उभयत्रापि सूक्ष्मपार्थिवभागेन तत् सहचारिणो गुणाः प्रतीयन्ते । प्रात्मनो व्यापकत्वे युकत्यन्तरमपि वर्तते द्वीपान्तर्गते द्वीपान्तर उपलभ्यते तन्न घटते प्रात्मनो सत्त्वप्रयासाऽभावात् कथं कार्योपलब्धिः आत्मनो व्यापकता स्वीकार्या । जैनाः वदन्ति-अदृष्टाः सावयवास्ते देशान्तरमपि व्याप्नुवन्ति । अत उपलब्धौ न कापि क्षतिः । मन्त्रप्रभावाद् दूरगामिनो भवन्ति तथैव आत्मापि इत्यपि न वाच्यम् । तेषामधिष्ठातारो देवा भवन्ति । ते नानालब्धिमन्तो भवन्तीति । अनेकैः प्रमाणः शरीरप्रमाणमेवात्मा न तु बहिरि ति ॥ ६ ॥
- भाषानुवाद - * श्लोकार्थ-जिस पदार्थ के गुण, जिस स्थान में दृष्ट होते हैं, वह पदार्थ उसी स्थान में रहता है। जैसे-जहाँ घट के रूप आदि गुण रहते हैं, वहीं घट भी रहता है । तथापि प्रतत्त्ववादी (वैशेषिकदर्शनानुयायो) देह के बाहर भी प्रात्मा को (सर्वव्यापक) मानते हैं ।। ६ ।।