________________
आश्वासः ]
रामसेतुप्रदीप-विमलासमन्वितम्
गतेत्यर्थः । विकटनखदर्शनजन्यभयादिति भावः। यत्पदस्योत्तरवाक्यगतत्वान्न पूर्वस्कन्धके तत्पदापेक्षा। कथंभूते प्रभाविच्छर्दनखे। लग्नदनुजेन्द्ररुधिरे। उभयत्र प्राकृतत्वात्पूर्वनिपातानियमः । लग्नं दनुजेन्द्रस्य रुधिरं यत्र तादृशे । कस्मिन्निव सति। स्तनांशुके गलित इव स्खलित इव । नखानां महत्त्वादसृग्भिरव्यापनात्तदेकदेशलग्नरुधिरतया लक्ष्म्या अर्धरक्तश्वेतवस्त्रत्वेनोत्प्रेक्षा कृता। अन्यापि स्त्री स्तनवसनविपर्यासे सव्रीडा पलायत इति ध्वनिः । तथा च म्रियमाणो दानवेन्द्रो निःश्रीको वृत्त इति तात्पर्यम् । 'व्याकुलापि पलायिता' इत्यपि व्याख्यानम् । तत्र व्याकुलस्यापयानमशक्य मित्यपेरर्थः । 'विच्छर्दस्तु समूहे स्याद्वान्तौ विश्लेषभेदयोः ॥२॥
विमला-(हिरण्यकशिपु के हृदय को विदीर्ण करते समय ) नरसिंहरूपी मधुमथन के स्वभावतः श्वेत नख में जब उस दनुजेन्द्र का रुधिर लगा और वह प्रकाशमान हुआ उस समय उस महान् असुर की श्री मानो ( नरसिंह के नख में उलझ जाने से ) स्तनांशुक खिसक जाने पर ( लज्जित हो ) व्याकुल होती हुई भाग गयी ॥२॥ जन्मान्तरेऽपि दुष्टदैत्यनिबर्हणक्षमतां विभोराह
पोणत्तणदुग्गेझं जस्स भुनाअन्तणि ठरपरिग्गहिनम् । रिट्ठस्स विसमवलिअं कण्ठं दुक्खेण जीविन बोलीणम् ॥३॥ [पीनत्वदुर्गाह्य यस्य भुजान्तनिष्ठुरपरिगृहीतम् ।
अरिष्टस्य विषमवलितं कण्ठं दुःखेन जीवितं व्यतिक्रान्तम् ॥] यस्य कृष्णरूपिणो मधुमथनस्य भुजान्तौ हस्तौ ताभ्यां निष्ठुरं यथा स्यादेवं परि सर्वतोभावेन गृहीतं धृतमरिष्टस्य वृषभरूपिणोऽसुरविशेषस्य कण्ठं कर्म जीवितं कर्तृ (दुःखेन) व्यतिक्रान्तम् । अपगतमित्यर्थः । 'भुजायन्त्र' इति प्रकृतौ मिथःसंबद्धभुजायुगलरूपयन्त्रपरिगृहीतमिति वा । कण्ठं कीदृशम् । पीनत्वेन दुर्गाह्यम् । अत एव विषमं विपर्यस्तं यथा स्यादेवं वलितं वक्रीकृतम् । आमोटितमिति यावत् । पीनत्वेन सम्यग्धर्तुमशक्यत्वात् । अत्र जीवितस्य दुःखव्यतिक्रमणे विषमवलनं हेतुः। तस्य च निष्ठुरपरिग्रहणम् । तस्य च दुर्गाह्यत्वम् । इत्युत्तरोत्तरं प्रति पूर्वपूर्वस्य हेतुत्वमिति हेतुपरम्परालङ्कारः। कि च, विषमवलनादजुमार्गालाभेन जीवितस्य कण्ठाद्दुःखेन निर्गमो वृत्त इति वस्तुना निजमायतनमरिष्टशरीरं त्यक्तुमशक्नुवतोऽपि जीवितस्य परमेश्वरहस्तेन बहिर्गमनं पुण्यहेतुरित्याशयेनेव सदु:खं निष्क्रमणमासीदित्युत्प्रेक्षा व्यज्यते ॥३॥
विमला-वृषभरूपी अरिष्टासुर के कण्ठ को पीन होने के कारण दुर्ग्राह्य समझकर श्रीकृष्णरूपी मधुमथन ने दोनों हाथों से निष्ठुरतापूर्वक पकड़ कर ऐसा दबाया और मरोड़ दिया कि वह बुरी तरह टेढ़ा-मेढ़ा हो गया, जिससे ( सीधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org